This page has not been fully proofread.

व्यायः ।
 
जन्ययीभावः ~~ (समासः)
 
अव्ययीमावाधिकार पठितत्वमव्ययीभावत्वम् ।
पूर्वपदार्थप्रधानोव्ययीभाव इति लक्षणं तु प्रायिकं बोम्यम् । तथा हि
उम्मचगङ्गमिव्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः । स्पप्रतीय-
व्ययीभाष उत्तरपदार्थप्राधान्यादव्यातिव । अतो नेदं सिद्धान्तभूतं
लक्षणमिति ( वैयाकरणभू० ) ( श० पू० ३१ ) । अर्धपिप्पी यादौ
तरपुरुषे पूर्वपदार्थप्राधान्यादतिन्याप्तिरप्यस्मिन् लक्षणे बोष्या । अनब्य-
यमव्ययं भवतीत्यव्ययीभावः । अव्ययीमावस्याव्ययत्वम् अव्ययीभावश्च
( पाणि० सू० १११४१) इति सूत्रेण बोध्यते ।
 
अव्यवधानम् - तदधिकरणक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वम् । यथा कमि-
कपदार्थोपस्थितीनामव्यवधानम् । अथ वा तसाविकरणक्षणोत्पत्तिकत्वम् ।
अव्यवहित त्वम् तत्पूर्वकालीनष्वंसाप्रतियोगित्वम् ( ग० २ पक्ष०
पृ० ३८ ) । यथा अनुमित्यव्यवहितपूर्ववृत्तिसिद्धिमिनसियभावः पक्षता
( दीधि ० ) इत्यत्रानुमित्यव्यवहितपूर्वक्षणे सिद्धावेव वा विशेषणीभूत-
मव्यवहितत्वम् ।
 
अव्यवहितपूर्वत्वम् –[क] तदुत्पतिक्षणोत्पत्तिकध्वंसप्रतियोगित्वम् (दीधि ०
पक्ष० पृ० १२९ ) । अत्र तत्पदेन क्षणद्वयावस्थायि ज्ञानादिकं
प्रायम् । विग्रहस्तु तस्य ज्ञानादे: उत्पत्तिक्षणे उत्पत्तिर्यस्य स
तदुत्पतिक्षणोत्पत्तिकः । सचासौ ध्वंस । तस्य प्रतियोगि। तस्य भावः
इति । ज्ञानायुत्पत्तिक्षणे यस्य ध्वंस उत्पद्यते तत्त्वमिति विप्रहार्थः । इदं
लक्षणं प्रागभावानभ्युपगन्त्नयेपि संगच्छते इति विज्ञेयम् ( ग० पक्ष
१० ४४ ) । [ ख ] तत्प्रागभावाधिकरणकालप्रागभावानधिकरणत्वे
सति तत्प्रागभावबश्वम् ( ग० पक्ष० पृ० ४१ ) । अत्र सत्यन्तदलेन
अब्यवधानम् विशेष्यदलेन सु पूर्वत्वं बोष्यत इति विज्ञेयम् । इदमव्यव-
हितपूर्वत्वं च प्रागभावाङ्गीकर्तृपक्ष एवं संगठत इत्यबधेयम् । यथा
विशेषणानस्य विशिष्टज्ञानाव्यवहितपूर्वत्वम् । यथा वा परामर्शस्यानु-
मिव्यब्यवहितपूर्णत्वम् ।
१३ न्या. को