This page has not been fully proofread.

मात्रम् । यथा मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । अविषेवावि-
नाभूतप्रतीतिर्लक्षणोष्यते ॥ ( भट्टवार्तिके ) इत्यादौ अविनाभावशब्दार्थः
( काव्यप्र० उ० २ पृ० २० ) । २ मीमांसकमते तु स्वदेशवृत्तित्वं
तादात्म्यं च अविनाभावः । यथा व्यक्त्यविनाभावातु जात्या व्यक्तिरा-
क्षिप्यते ( काव्यप्र० २ १० १७) इत्यादौ अविनाभावशब्दार्थः ।
अविनाभावो गुरुमते जातेर्व्यक्तिदेशत्वम् । भट्टमते तु तादात्म्यम् इति
( काव्यप्र० टी० कमला० पृ० १७) ।
 
अविरतिः --[क] पृथिव्यादिषट्कोपादानं षडिन्द्रियासंयमनं चाविरतिः
( सर्व० सं० १० ७५ आईत० ) । [ ख ] विषयामिलाषः ( सर्व •
सं० पू० ३५५ पातड ० ) ।
अविवेकः - १ विवेकाभावः । २
नमिति सांख्याः ।
 
अन्योन्यतादात्म्यारोपरूपं मिथ्याहा-
अविशेषसमः ( जाति: ) [ क ] एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्र-
सङ्क्रासद्भावोपपत्तेरविशेषसमः ( गौ० ५/१/२३) । एको धर्मः प्रयत्ना-
नन्तरीयकत्वं शब्दघटयोरुपपद्यत इत्यविशेष उभयोरनित्यत्वे सर्वस्या-
विशेषः प्रसज्यते । कथम् । सद्भावोपपत्तेः । एको धर्मः सद्भावः सर्व-
स्योपपद्यते । सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात्प्रत्यवस्थानमविशेषसमः
(वात्स्या० ५/१/२३) । अविशेषेण समः अविशेषसमः इति व्युत्पत्तिः ।
[ ख ] सन्मात्रवृत्तिधर्मेणाविशेषापादनम् । प्रतिकूलतर्कदेशनाभासोयम्
( गौ०
१० वृ० ५/११२३ ) । [ग ] सर्वाविशेषप्रसङ्गोदावनम् । यथा
शन्दः अनित्यः कृतकत्वादित्यादौ यदि कृतकत्वादिना अनित्यघटादिसा-
धर्म्येण शब्दस्यानित्यत्वं तदा प्रमेयत्वादिरूपेण तत्साधर्म्येण सर्वस्यैवा-
नित्यावं स्यात् । मदुक्तसाधर्म्येण तत्सिभ्यति न तु त्वदुक्तेनेत्यत्र विनिंग -
मकाभावादिति ( नील० पृ० ४४ ) ।
 
-
 
-
 
अवेष्टि: - राजस्ये अवेटिसंज्ञकाः पञ्च यागाः । ते च यथा आग्नेयमष्टा-
कपाळं निर्वपति हिरण्यं दक्षिणा । ऐन्द्रमेकादशकपाळपुषभो दक्षिणा ।