This page has not been fully proofread.

न्यायकोचः ।
 
SP
 
संस्कारमात्रजन्यो बुद्धेविषयाकारः परिणामः । सुबुध्यवस्था तु द्विविधा
अर्धव्यसमप्रलयभेदात् । तत्रालये स्वगत सुखदुःखमोहाकारैव बुद्धि-
वृत्तिर्भवति न तु विषयाकारा वृत्तिर्भवति । समग्रलये तु बुद्धिवृत्तिसा-
मान्याभावरूपा मरणादाविव भवति । पुरुषस्तदा तत्साक्षी न भवतीति
विज्ञेयम् । सिद्धान्तबिन्दौ (पृ० १८८) जामदादीनां लक्षणान्युक्तानि ।
इन्द्रियवृत्तिकालीनार्थोपलम्भो जागरणम् । इन्द्रियवृत्त्यभावकालीनार्यो-
पलम्भः स्वमः । न किंचिदवेदिषमिति कारणमात्रोपलम्भः सुषुप्तिः इति ।
कौमारपौगण्डकैशोरयौवनबाल्यतारुण्यवृद्धत्ववर्षीयस्त्वभेदेनाष्टविधेति पौरा-
णिका: । बाल्यकौमारयौवनवृद्धत्वभेदेन चतुर्विघेति मिषजः । अमिला-
पश्चिन्तास्मृतिगुणकथनोद्वेगसंलापाः । उन्मादोय व्याधिर्जडता स्मृतिरिति
दशैव कामदशाः ॥ इति भेदेन दशविधेत्यालंकारिका आहुः (वाच० ) ।
आ लाभ प्राप्तेरेकमर्यादा वस्थितस्य यदवस्थानं सा अवस्था ( सर्व० सं०
पृ० १६३ नकुली० ) ।
 
अबाची - ( दिक् ) दक्षिणावदस्यार्थोनुसंधेयः ।
 
अवान्तरप्रलयः – ( प्रलयः ) खण्डप्रव्यवदस्यार्थो नुसंधेयः ( त० दी०
१पृ० १० ) ।
 
अविज्ञातार्थम् -( निग्रहस्थानम् ) [क] परिषत्प्रतिवादिभ्यां त्रिरभिहित-
मप्यविज्ञासमविज्ञातार्थम् ( गौ० ५/२/९ ) । यद्वाक्यं त्रिरमिहितमपि
परिषदा प्रतिवादिना च न विज्ञायते लिष्टशब्दमप्रतीत
प्रयोगमतिद्-
तोच्चारितमित्येवमादिना कारणेन तदविज्ञातमविज्ञातार्थमसामर्थ्यसंवरणाय
प्रयुक्तमिति निग्रहस्थानमिति ( वात्स्या० ५/२/९ ) । एतस्य त्रेधा
संभवः । असाधारणतन्त्र मात्रप्रसिद्धम् अतिप्रसक्तयोगमनपेक्षितरूढिकम्
लिष्टं चेति । तत्रायं यथा पत्र स्कन्धादयो बौद्धानाम् । तत्र रूपादयः
पन्द्रियाणि च रूपस्कन्धः । सविकल्पकं संज्ञास्कन्धः । रागद्वेषाभिनिवेशाः
संस्कारस्कन्धः । सुखदुःखे वेदनास्कन्धः । निर्विकल्पकं ज्ञानस्कन्ध इति ।
द्वितीयं यथा कश्यपतनयाभुतिहेतुरयं ( भूधरोयम्) त्रिनयनसमान-