This page has not been fully proofread.

९२
 
न्यायकोचः ।
 
दिलादौ लोष्टादिगतनोदनादिरूपक्रियाहेतुगुणवत्वमात्मन्यसिद्धम् । तथा च
तुल्यतया यथा असिद्धेन क्रियाहेतुगुणेनात्मनि क्रियावस्वं साभ्यते तथा
तादृशेन क्रियावत्त्वेन तज्जनकगुणवत्त्वमपि किमिति न साप्यते । निया-
मकाभावादिति ( नील० पृ० ४३ ) ।
 
अवश्यद्धसत्वम्-लघुपस्थितिकत्वम् । यथा पाकजस्थले गन्धं प्रति जनकत्वे
गन्धभागभावस्य ( गन्धं प्रति रूपप्रागभावस्य जनकत्वमपेक्ष्य ) अव-
श्यकृतत्वम् ।
 
-
 
अवश्यम् - १ अप्राप्त्यभावः । यथा एतेष्वावश्यकस्त्वसौ ( मा० १०
लो० २२) इत्यादौ । २ अशक्यनिवारणम् । ३ निश्चय इत्यपि
केचित् ( वाच० )।
 
अवसरः - ( संगतिः ) [ क ] प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्या अन-
न्तरवक्तव्यत्वम् । यथा प्रत्यक्षनिरूपणानन्तरं तत्कार्यत्वेनानुमानोपमानयो-
रुभयोर्निरूपणप्राप्तौ बहुवादिसंमतत्वेन प्रथममनुमान एव जिल्हासोदये-
नानुमाननिरूपणेन प्रतिबन्धकजिज्ञासानिवृत्ताववसरसंगत्योपमाननिरूप-
णम् ( राम० ३ पृ० १७० ) । [ ख ] प्रतिबन्धकी भूतशिष्यजिज्ञा-
सानिवृत्तिकालावच्छिन्नावश्यवक्तव्यत्वम् (बै० सा० द० ) । [ग]
प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वम् । यथा अनु-
माननिरूपणानन्तरं तादृशजिज्ञासानिवृत्ताववश्यवक्तव्यत्वहानात् कि क्ल-
व्यम् इति श्रोतुर्जिज्ञासानन्तरमुपमाननिरूपणम् इति । [ घ ] जिल्ला-
सितार्थसिद्धत्वमिति केचित् ( भवा० ) ।
 
अवस्था – १ काळकृतः परिणामः । सा चावस्या जायते अस्ति वर्धते
विपरिणमते अपक्षीयते नश्यति इति भावविकारः पढ़िध इति बास्को
वक्ति । अविद्यास्मितारागद्वेषाभिनिवेश मेदेन पञ्चविषेति योगिनः । अना-
गतावस्था अभिव्यक्त्यवस्था तिरोहितावस्थेति त्रिविधेति सांख्या: । जामस्व-
मसुषुप्तिरूपास्तिस्रोवस्थाः चतुर्थी मोक्षावस्या चेति चतुर्विधति वेदान्तिनः ।
जामदवस्था नाम इन्द्रियद्वारा बुद्धेविषयाकारः परिणामः । वनावस्था
१ अस्मिता इति पदच्छेदः ।