This page has not been fully proofread.

व्यायकोषः ।
 
(ग० अष०) । [ष ] प्रतिज्ञाचघटकले सत्युभयघटक भागद्वयाघटितत्वम्
( दीधि० २५० १६६) । प्रतिज्ञाद्यघटकत्वं च मिलितमेदपञ्चकानु-
योगिताबच्छेदक मिनधर्मवत्त्वम् (ग० अव०) । उभयं च प्रतिज्ञाहेतू हेतू-
दाहरणे उदाहरणोपनयौ उपनयनिगमने इति विशिष्य वक्तव्यम् ( दीधि०
O
२ पृ० १६६ ) । यथा पर्वतस्य पक्षत्वे बहे: साध्यत्वे घूमस्य हेतुत्वे
पर्वतो हिमान् इति प्रतिज्ञावाक्यस्य घूमात् इति हेतुवाक्यस्य चावयव-
स्त्रम् । एवमुदाहरणादेरध्यवयवत्वं ज्ञेयम् । [ ] प्रतिज्ञादिप्रतिपाद्य-
तत्तद्विशिष्टार्थविषयक ज्ञानपञ्चकान्यतमज्ञानजनकवाक्यत्वमित्यपि केचित्
( दीघि० अव० पृ० १६६ ) ।
 
अवयवि-जन्यद्रव्यम् ( त० दी० पृ० ४० ) । यथा घटपटादि ।
अवरुद्धा-(दासी) दास्य एव स्वामिना शुश्रूषाहानिज्युदासार्थ गृह एव
स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः ( मिताक्षरा
२।२९ ) ।
 
अवरोधः -गतिप्रतिरोधहेत्वावरणम् । यथा गामवरुणद्धि ब्रजमित्यत्रावरु
धेरर्थ: (श० प्र० पृ० ९९ ) । अत्र गोगतिप्रतिरोधस्यानुकूलं यद्रजस्यावरणं
तत्कृतिमानित्यन्वयः ( श० प्र० पृ० ९९ ) ।
अपर्ण्यसमः - (जातिः) [ क ] स्थापनीयो वर्ण्यः । विपर्ययादवर्ण्यः । तावेतौ
साभ्यदृष्टान्तधर्मो विपर्यस्थतो वर्ण्यावर्ण्यसमौ भवतः (वात्स्या० ५।१।४ ) ।
अत्रावर्ण्यत्वेन समः अवर्ण्यसम इति व्युत्पत्तिः । व्यसिद्धिदेशनाभासोयम् ।
[ख] अवर्ण्यत्वं संदिग्धसाध्यकत्वाभावः ( गौ० १० ५११४ ) । पक्षे
असंदिग्धसाभ्यकत्वापादनम् । दृष्टान्ते हेतोर्यादृशत्वं तादृशो हेतुरेव
गमक इत्यभिमानेनैवमापादनम् । घ्यन्ते यो हेतुः सिद्धसाध्यकवृत्तिः
स चेन पक्षे तदा गमकहेत्वभावात्स्वरूपासिद्धिः स्यादतस्तादृशो हेतुरवश्यं
पक्षत्वामिमते स्वीकार्यः । तथा च संदिग्धसाब्यकत्वलक्षण पञ्चत्वाभावादा-
क्यासिद्धिः ( गौ० ० ५२११४) । [ग] साम्यहेत्वोर्षर्मयोरपि पचे
मुख्यतया साधनम् । यथा आत्मा सक्रियः क्रियाहेतगुणवत्त्वाव-
१ तुझ्यतासाभनमिति पाठान्तरम् ( नीरू पु०४३।