This page has not been fully proofread.

न्यायकोर 1.
 
लक्षणाभावात् । न्यायाघटकत्वाच । किं तु न्यायाङ्गतयोपयुज्यन्ते
(चि० २ १० ८३.) ( गौ० पृ० १ । १२ ।३२ ) ( वात्स्या० १ । १।३२ ) ।
अवयवप्रयोगे विशेषो ज्ञेयः केवलव्यतिरेकिण्यनुमाने प्रतिज्ञाहेतू तुझ्या.
वेव । अन्वयव्यतिरेक्यनुमाने केवलान्वय्यनुमाने च यादृशाकारी प्रतिज्ञाहेतू
भवतस्तादृशाकारावेवेति यावत् । उदाहरणोपनयनिगमनानि तु भिद्यन्ते ।
यथा जीवच्छरीरं सात्मकं प्राणादिमवादित्यत्र यत् सात्मकं न भवति
तत् प्राणादिमन भवति यथा घटः इत्युदाहरणम् । व चेदं जीवच्छरीरं
प्राणादिमन भवति इत्युपनयः । तस्मान तथा इति निगमनम् इति
( त० कौ० २ पृ० १३) ।
 
अवयवत्वम् – ( न्यायावयवत्वम् ) [ क ] प्रतिज्ञाद्यन्यतमत्वम् ( गौ० दृ०
१।१।३२ ) ( न्या० म० २ पृ० २४ ) ( न्या० ब० पृ० १५)
( म०प्र० २ पृ० ३३) । प्रतिज्ञाद्यन्यतमत्वं प्रतिज्ञादिमेदपथकामाव-
वस्वमित्यर्थः । प्रतिज्ञायां हेत्वादिमेदचतुष्टयसत्वेपि स्वभेदाभावाद्भेद-
पञ्चकाभाववत्त्वं संपद्यते । एवं हेतावपीति लक्षणसमन्वयः ( म० प्र० २
पृ० ३३ ) । [ ख ] अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्द-
ज्ञानजनकशाब्दज्ञानजनकवाक्यत्वम् (चि० अव० पृ०७६ ) । तदर्थव
अनुमितेश्वरमं कारणं यः परामर्श: तस्य प्रयोजकं शाब्दज्ञानम् न्यायात्मक-
प्रतिज्ञादिपञ्चवाक्यजन्यं तावदर्थविषयकं विशिष्टवैशिष्ट्यावगाहिज्ञानम् सम्-
हालम्बनात्मकं वा । तस्य जनकं शाब्दज्ञानम् प्रत्येकावयवजन्यज्ञानम् ।
तस्य जनकं वाक्यम् तत्त्वम् इति । [ग] न्यायान्तर्गतत्वे सति प्रतिवाद्यन्यतम-
त्वम् । न्यायान्तर्गतत्वं च स्वाविषयकप्रतीव्यविषयन्यायकत्वम् । न्यायत्वाम-
यत्वं वा । प्रतिज्ञोत्तरहेत्वादिघटितवाक्पपञ्चका नुपूर्वी विशेषावच्छिन्नमेदप्रति-
योगितावच्छेदकत्वं वा । तादृशानुपूर्वीविशेषप्रकारकनिश्चयत्वसमनियत-
कारणतावच्छेदकविषयिताकत्वं वा प्रतिज्ञायन्यतमत्वं च प्रतिज्ञालाय-
वच्छिम्मानुयोगिताकमेदप्रतियोगितावच्छेदकं मयचदवच्छिमप्रतियोगिता-
कमेदानुयोगितावच्छेदको यः प्रतिकादिमेदपञ्चकानुयोगिताय वकं यथ-
द्रूपं तदवच्छिन्नानुयोगिताकमेदप्रतियोगिताबच्छेदकीतो धर्मसम्