2023-02-20 00:54:19 by ambuda-bot
This page has not been fully proofread.
( १० मा० पू० ४३ ) ( त० सं० ) । वाक्यैकदेश इत्य-
स्यार्थस्तु पूर्वस्पृत्यपेक्षोन्त्यपदप्रत्ययः स्मॄत्यनुग्रहेण प्रतिसंघीयमानो
विशेषप्रतिपत्तिहेतुर्वाक्यं तस्य भाग एकदेश इति ( न्या० बो० ) ।
प्रतिज्ञादिमेदादवयवाः पञ्चेति न्यायमकरन्दे ( न्या० म० २/२४ )
उक्तम् । एते प्रतिज्ञादयः पञ्चानुमानस्यावयवा इव अवयवाः । न तु सम-
वायिकारणम् । शब्दस्याकाशसमवेतत्वात् ( स० मा० पृ० ४३ ) ।
केचितु ( मीमांसकाः ) उदाहरणान्तात्रय एवावयवा इत्यादुः । तन्न ।
तृतीयलिङ्ग परामर्शस्य व्याप्तिपक्षधर्मतावगाहिनोवयवान्तरादलाभात् ।
तदनभ्युपगमेपि पक्षधर्मताया अडाभात् । न च हेतुवचनादेव तदव-
गमः । तस्य को हेतुः इत्याकाङ्क्षायां प्रवृतत्वेन हेतुस्वरूपोत्यापकस्यात-
त्परत्वात् (चि० २ १० ८१ ) । हेतूदाहरणोपनयनानि एते त्रयोवयवा
इति केचित् मन्यन्ते (बाच ० ) । उदाहरणोपनयौ दाववयवाविति बौद्धा
आडु: ( म० प्र० २ १० ३३ ) । रामानुजीयास्तु वदन्ति अस्माकं
तु अनियमः । कचित्पञ्चायवो न्यायः । कचिध्यवयवः । कचिंता-
वयवः । उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् । तावतै-
वानुमित्युपपत्तेा । मृदुमध्यमकठोरघियां विस्तरसंग्रहाम्यिां व्यवहार
उपपद्यत इत्यनियम एवेति ( यतीन्द्र० दी० द्वि० अ० पृ० २१ ) ।
जिज्ञासा संशयः शक्यप्राप्ति: प्रयोजनं संशयव्युदासवेति एते
प्रतिज्ञादिसहिता दशावयवा इत्यतिप्राचीननैयायिका आहुः
( म० प्र० २ पृ० ३३ ) ( चि० प्र० १० ५२ ) (गौ० दृ०
१।१।३२.) (वात्स्या० १ । १।३२ ) । जिज्ञासादीनामर्थश्च तात्पर्यटीकाया-
मुक्तः । प्रयोजनं हानोपादानोपेक्षाबुद्धयः । तत्प्रवर्तिका जिज्ञासा । तब्बनकः
संशयः । प्रमाणानां जननसामर्थ्य शक्यप्राप्तिः । संशयव्युदासस्तर्कः
( गौ० दृ० १/१/३२ ) ( वात्स्या० ११ १/३२) । तत्र विप्रतिपत्ति-
जिज्ञासेति कश्चित् । मजरीप्रकाशकारास्तु पदवाक्यप्रमाणानां ज्ञानजनन-
प्रयोजकत्वं शक्यप्राप्तिः । कथायां यदुद्देश्यं तत्प्रयोजनमित्याहुः ( म०
प्र० २ पृ० ३३ ) । एते जिज्ञासादयः पत्र न न्यायाबथवाः । अवयव -
०