This page has not been fully proofread.

न्यायकोड: ।
 
अवधिः सम्यग्दर्शमादिगुणजनितक्षयोपशमनिमित्तमबच्छिणविषयं ज्ञान-
मवधिः ( सर्व० सं० पृ० ६३ आईत० ) ।
 
अवधित्वम् - १ [ क ] संबन्धविशेषः । यथा वृक्षाद्विभजत इत्यादौ
द्रब्यनिष्ठमवधित्वं पञ्चम्यर्थः ( दीवि० २ अव० पृ० १७५ ) । []
स्वरूपसंबन्धविशेषः । यथा वृक्षाद्विभजत इत्यादौ वृक्षादेरवधित्वात्मक-
मपादानत्वम् ( ग० व्यु० ५) । २ सीमात्वम् । तच स्वामिघेयापेक्षया
विभागाश्रयत्वम् । सीमा च त्रिविधा । कालकता देशकृता बुद्धिकता
च । तत्र प्रथमा मासात्पूर्व घट इत्यादौ । द्वितीया नद्या वनमित्यादौ ।
बनस्य नद्यपेक्षविभागाश्रयत्वात्तथा त्वम् । तृतीया तु माथुरा: पाटलिपुत्रेभ्य
आयतरा इत्यादौ ( वाच० ) ।
 
अवधिमत्वम् – संबन्धविशेषः । यथा वृक्षाद्विभजते इत्यादौ धात्वर्थविभागे
अवधिमत्त्वं पञ्चम्यर्थैः । वृक्षात्पर्ण पततीत्यादौ च विभागे अवधिमत्वं
संबन्ध: ( दीधि ० २ अव० पृ० १७५ )।
 
अवयवः - (द्रव्यावयवः) द्रव्यस्य समवायिकारणम् (त० दी० पृ० १० ) ।
यथा अवयवावयविनोः संबन्धः समवाय इत्यादी कपालं घटस्यावयवः
तन्तुश्च पटस्यावयवः । स चावयवः परमाणूनारम्य कपाळपर्यन्तं
तन्तुपर्यन्तं चानेकधा ।
 
अवयवः
 
( न्यायावयवः ) [ क ] साधनीयस्यार्थस्य यावति शब्दसमूहे
सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्यावयवा
उच्यन्ते । तेषु प्रमाणसमवाय आगम: प्रतिज्ञा । हेतुरनुमानम् । उदा-
हरणं प्रत्यक्षम् । उपनयनमुपमानम् । सर्वेषामेकार्थसमवाये सामर्थ्यप्र-
दर्शनं निगमनमिति । सोयं परमो न्याय इति ( वात्स्या० १।१।१ )।
[ख] अर्थसाधकमावात्तु प्रतिज्ञादयः साधकवाक्यस्य मागा एकदेशा
अवयवा इति ( वात्स्या० ११ १२ १३२ ) । [ग ] परार्यानुमानवाक्यै-
कदेश: ( सर्व० सं० पृ० २३८ अक्ष० ) । ते चावयवाः पच ।
प्रतिज्ञा हेतुः उदाहरणम् उपनयः निगमनं चेति ( गौ० १/१/३२ )