This page has not been fully proofread.

न्यायकोक ।
 

 
त्वम् । अत्रेदं बोध्यम् । देशे वृत्तौ कालस्यावच्छेदकत्वम् काले वृत्तौ
देशस्यावच्छेदकत्वम् इति नियमेन गवाभावावच्छेदकत्वं कदाचिदेशस्य
कदाचित कालस्यापि संभवति इति । किंचात्र अवच्छेयाधिकरणत्वं
यस्म संभवति तस्यैवाबच्छेदकत्वम् इति नियमोप्यङ्गी कर्तव्यः
तेन प्रलयस्य गवावच्छेदकत्वापत्यसंभवः ( ग० च० १ खलक्षण ० ) ।
देशकाळयोरवच्छेदकत्वं तु स्वरूपसंबन्धरूपमेवेति नियमोत्र ज्ञेयः ।
२ अवच्छेदकत्वाख्यो विषयतात्मकः स्वरूपसंबन्धविशेषः । यथा पर्वते
बहिसाधने पर्वतत्वस्य पर्वतो वह्निमान् इत्यनुमित्यात्मकज्ञानीयबहिनिष्ठ-
विधेयतानिरूपितोदे श्यतावच्छेदकत्वम् । ३ स्वाश्रयजन्यत्वम् स्वाश्रय-
विशेषणत्वं वा । यथा धात्वर्थताबच्छेदकफलशालित्वं कर्मत्वमित्यादी
फले धात्वर्थताया अवच्छेदकत्वम् । एवं धात्वर्थता । तदाश्रयो
व्यापाररूपो धात्वर्थः । तज्जन्यत्वं फले । शाब्दिकास्तु फलावच्छिन्न-
व्यापार इत्यादौ फलसंबन्धिव्यापारः इति बोधोदयात् संबन्ध एवात्रा-
वच्छेदकत्वमित्याहुः ( बै० सा० द० सु० ) । ४ व्यापकत्वम् । यथा
पर्वतत्वावच्छेदेन बहौ साध्ये पर्वतो बहिमानित्यादौ पर्वतत्वव्यापक वहि-
प्रतियोगिक संयोगत्वस्यावगाहमानं संसर्गतावच्छेदकत्वम् ( ८० ६०
पृ० २२) । अत्र पर्वतत्वव्यापकवधिप्रतियोगिकसंयोगस्याप्रसिद्धया
ताशसंयोगत्वे संसर्गताया अवच्छेदकत्वं न भासते अपितु केवल-
संयोग एव पर्वतत्वव्यापकत्वं संसर्गतावच्छेदकत्वेन ( अवच्छेदककोटि-
प्रविष्ठानामप्यवच्छेदकत्वमिति पक्षे ) भासते इति तु बयम् । ५ व्याप्य
त्वम् । यथा यद्रूपावच्छिन्नविषयतानिरूपित विषयिता अनुमितिप्रतिबन्धक-
ताबच्छेदिका तद्रूपावच्छिन्नत्वमिति हेत्वाभाससामान्यलक्षणे हृदो न
बहिमान् इति निश्चयीयविषयितायां हृदो वहिमान् इत्यनुमितिनिष्ठप्रति-
बभ्यतानिरूपित प्रतिबन्धकताया अबच्छेदकत्वम् । व्याप्यत्वमित्यस्य
 
ब्यापकतत्कत्वमित्यर्थः ( ग० सामा० प० ९) । कचिच स्वव्यापक-
तत्काम्यत्व-सत्सामानाधिकरण्य- एतदुभयाभाववस्वम् । तेन व्यधिकरण-
धर्मस्य प्रतियोगिताबच्छेदकत्वं संगच्छते (ग० ० द्वितीयखलक्षण●