2023-02-20 00:54:18 by ambuda-bot
This page has not been fully proofread.
८३
अवच्छेदकत्वम् – १ स्वरूपसंबन्धविशेषः । स च कचित् [क] प्रति-
योग्यंशप्रकारीभूतधर्मस्वम् । यथा प्रमेयधूमाभावप्रतियोगिताया भवच्छे-
दकत्वं घूमत्वे । अत्रायं नियमः - संभवति लघौ गुरौ तदभाव इति ।
तेन गुरुभूते प्रमेयत्वविशिष्टघूमत्वेवच्छेदकत्वमनादृत्य शुद्धघूमत्व एवा-
वच्छेदकत्वं स्वीकृतमिति ज्ञेयम् । समानाधिकरणयोरेव धर्मयोरबच्छेद्या-
बच्छेदकभाव इति सामान्यनियमो बाहुल्येन प्रवर्तत इत्येतस्सुचीभि
श्चिन्त्यम् । कचित् [ व ] अनतिरिक्तवृत्तित्वम् । तच द्विविधम् ।
तत्राद्यम् - तच्छ्रन्यावृत्तित्वे सति तदधिकरणवृत्यभाषाप्रतियोगित्वम् ।
यथा घटाभावप्रतियोगिताया अवच्छेदकत्वं घटत्वे । अत्रायं नियम:-
अन्यूनानतिरिक्तवृत्तिधर्मस्यैना वच्छेदकत्वम् इति । तेनातिरिक्तवृत्तिद्रव्यत्वादौ
घटाभावीय प्रतियोगिताया अवच्छेदकत्वनिरासः । अनतिरिक्तवृत्तित्व-
रूपमवच्छेदकत्वं च यद्यपि न स्वरूपसंबन्धरूपावच्छेदकत्वेन्सर्भवेत्तथा-
प्युदाहरणानुरोधेन तत् अन्तर्निवेशितम् । वस्तुतस्तु तत्तनिष्ठमबच्छेद-
कत्वं च तत्तद्वित्तिवेद्यमेवेति नैवानुगमय्य निर्वक्तुं शक्यमिति तु वयम् ।
द्वितीयं तु व्यावर्तकत्व - सामानाधिकरण्य- स्वनिष्ठावच्छेद्यताकत्व-एस-
त्रितयसंबन्धेन यत्किंचिद्धर्मविशिष्टत्वम् । यथा घटकारणताया अवच्छेद-
कत्वं दण्डत्वे । अत्र च इतरमेदानुमितिजनकज्ञान विषयत्वात्मकव्याव-
र्तकता यामवच्छेदकस्तु परंपरासंबन्धो बोध्यः । कचित् [ग] तदधि-
करणस्य तनिष्ठधर्मावच्छेदकत्वम् । यथा मूले वृक्षे न कपिसंयोगः
किं तु शाखायामित्यादौ वृक्षाधिकरणस्य मूलस्य वृक्षनिष्ठकपिसंयोगा-
भावावच्छेदकत्वम् वृक्षाधिकरणस्य शाखादेर्वृक्षनिष्ठकपिसंयोगावच्छेदकत्वं
च ( उ० व० पृ० २२ ) । अत्रावच्छेदकत्वं च स्वाश्रयसंबन्धित्वम् ।
स्वम् अवच्छेद्यत्वेनाभिमतः कपिसंयोगाभावादिः । यथा वा इह पर्वते
नितम्बे हुताशनः न शिखर इत्यत्र नितम्बरूपदेशस्य दुताशनावच्छेद-
कत्वम् शिखरस्य तु हुताशनाभाबावच्छेदकत्वं च । अत्रायं विशेष:-
संयोगेन द्रव्यस्याव्याप्यवृत्तित्वमिति मत एतस्यावच्छेदकत्वम् इति ।
यथा वा इदानीं चत्वरे गौर्नास्ती व्यादावेतत्कालेपि गवाभावस्थाबच्छेदक-
-