This page has not been fully proofread.

८३
 
समझसम् । २ सामानाधिकरण्यम् । यथा वहिव्याप्यघूमवान्पर्वतः इति
परामर्श निरूपितयोर्धूमनिष्ठविधयतयोरबच्छेद्यावच्छेदकभावः । अत्रेदं
बोध्यम् - मध्यवृत्तिविषयतयोर्भेदपक्षे पर्वतस्यावच्छिन्नविशेष्यतानिरूपितधू-
मनिष्ठमकारत्वस्य व्याप्तिनिष्ठ प्रकारता निरूपितधू मत्वावच्छिन्नविशेष्यत्वस्य
व परस्परमवच्छेद्यावच्छेदकभावः सामानाधिकरण्यात्मकः स्वीकृत इति ।
३ स्वरूपसंबन्धविशेषः । यथा अग्रे वृक्षः कपिसंयोगी न मूले इत्यादी
कपिसंयोगस्याप्रावच्छिन्नत्यम् । वृक्षसंबन्ध्यप्रभागवृत्तिस्त्वमित्यर्थः । ४
विशिष्टत्वम् । यथा घटत्वावच्छिन्नो घट इत्यादी घटस्य घटत्वावच्छिन-
त्वम् । ५ साहित्यम् । यथा शरीरावच्छिन्न आत्मनि भोगो जायत
इत्यादी आत्मनः शरीरावच्छिन्नम् । ६ अनुकूलत्वम् प्रयोजकत्वं वा ।
यथा फलावच्छिन्न व्यापारो धात्वर्थ इत्यादौ व्यापारस्य फलावच्छिन्नत्वम् ।
७ संबन्ध इति शाब्दिका बदन्ति ( वै० सा० द० )। ८ इयत्ताकरणम् ।
यथा द्रोणावच्छिन्नो वीहिरित्यादौ । ९ सीमाकरणम् । यथा गृहावच्छिन
आकाश: कर्णशष्कुल्यवच्छिन्न आकाश इत्यादौ । एवमन्तःकरणावच्छिन्नं
चैतन्यं जीव इति मायावादिमतेपि ज्ञेयम् ( वाच० ) ।
 
अवच्छेदः–१ प्रतियोगी । यथा अषच्छेदप्रहध्रौव्यादधौन्ये सिद्धसाधना-
दित्यादी ( कु० ३ श्लो० २२ टी० ) । २ व्याप्तिः । यथा पक्षताव-
च्छेदकाबच्छेदेन साम्यसिद्धावित्यादौ साध्यनिरूपिता पक्षतावच्छेदकनिष्ठा
व्याप्तिः । अत्र व्यापकत्वमप्यवच्छेदशब्दस्यार्थः संभवति । तथा च
पक्षतावच्छेदकव्यापकत्वविशिष्टसाध्यसिद्धौ इति बोधः । ३ इयत्ताकर-
णम् । यथा अप्राबच्छेदेन कपिसंयोगः मूलावच्छेदेन कपिसंयोगाभाव
इत्यादौ । ४ अवधारणम् । यथा शब्दार्थानामवच्छेदे ( शब्दार्थस्थान-
वच्छेदे ) विशेषस्मृतिहेतव इत्यादौ । ५ इयत्ताकरणसाधनम् । यथा
अप्रे वृक्षः कपिसंयोगी न मूल इत्यादौ संयोगादेरव्याप्यवृत्तित्वनियामको
वृक्षैकावयवो मूलाप्रादिप्रदेश: ( बाच० ) । यथा वा इदानीं बत्वरे
गौर्नास्तीत्यादावेतत्कालोप्यवच्छेदो भवति । अनार्ये अवच्छिद्यतेनेनेति
 
कारणे मन् । तेमावच्छेदकशब्दार्थः संपन्न इति शेयम् । ६ संकोचः ।