This page has not been fully proofread.

न्यायकीशः ।
 
शिष्टाचारविषयत्वात् दर्शादिवत् ( मू० म० मङ्ग० १ पृ० १६)
इत्यादावाचारस्य मङ्गलस्य वा अलौकिकत्वम् । [ ख ] उपाध्यायास्तु
लोकावगतबलबदनिष्टा ननुबन्धित्वविशिष्टेष्टसाधनताश्रयान्यत्वम् इत्याहुः
( मू० म० मङ्ग० १ पृ० १७ ) । [ग ] रागतोप्राप्तस्वमित्यस्मद्गुरु-
चरणा: प्रादुः । [ ष ] वेदबोधितेष्टसाधनताकत्वमिति मीमांसकाः
( मू० म० १ ) ।
 
अलौकिकप्रत्यक्षम् – ( प्रत्यक्षम् ) अलौकिकसैनिकर्षजन्यं प्रत्यक्षम् । अत्र
संनिकर्षे अलौकिकत्वं च सामान्यलक्षणज्ञानलक्षणयोगज एतदन्यतम-
त्वम् । विषयताविशेषो वा । यथा घूमत्वज्ञानानन्तरं सामान्यलक्षणप्र-
त्यासत्या जायमानं सर्वे घूमा घूमत्ववन्तः इति घूमत्वाश्रयसकल घूमवि.
षयकं प्रत्यक्षम् (मु० १ पृ० १२७ ) ।
 
अवकीर्णी ब्रह्मचारी सन् स्त्रीरतः ( जै० सू० वृ० ६/८/२४ ) ।
 
अवक्षेपणम् – ( कर्म ) अपक्षेपणबदस्यार्थोनुसंधेयः ।
 
अवगाहः – अन्यवस्तु प्रदेशमध्ये अन्यस्य वस्तुनः प्रवेशोवगाह: ( सर्व
सं० पृ० ७१ आई० ) ।
 
-
 
अवगाहनम् -[ क ] विषयिता । यथा घटबद्भूतलम् इति ज्ञानं घटा-
द्यबगाहीत्यादाववगाहनं विषयिता भवति । [ ख ] विषयीकरणमिष्यपि
केचिदन्ति ।
 
अवचर: साधनम् ( जै० सू० वृ० ३११/२१ ) ।
 
अवच्छिन्नत्वम् - १ व्यापकत्वम् ( मू० म० १ ) । यथा हृदे हिम-
चाबुद्धिनिरूपित प्रतिबन्धकतायां हृदो न बहिमान् इति निश्चयीयविषयि-
ताया अवच्छिन्नत्वम् ( ग० सामा० ) । अवच्छिन्नत्वावच्छेदकत्वयोः
( स्वरूपसंबन्धरूपयोः ) तुल्यवित्तिवेद्यत्वेन साकाइत्वेन च परस्पर
निरूप्यनिरूपकभावो बोभ्यः । तथा चावच्छेदकतानिरूपकताकत्वमेवा-
वच्छिन्नत्वमित्युत्त्यैष निर्वाहेच्छ्रित्यनिरुक्तिः शिष्यवृद्विषेशयामेति सर्व