This page has not been fully proofread.

८१
 
-
 
अलंकारः – १ शब्दार्थंभूषणमनुप्रासोपमादिः । स च बहुविधः । भत्रा-
लंकारत्वं च रसादिभिनं ययङ्ग्यं तद्भिन्नत्वे सति शब्दार्थान्यतरनिष्ठा
या विषयतासंबन्धावच्छिमा चमत्कृतिजनकतावच्छेदकता तदवच्छेदक-
स्वम् इति । अत्र अनुप्रासादिवि शिष्टशब्दज्ञानात् उपमादिविशिष्टार्थज्ञा-
नाच चमत्कृतिर्जायत इति लक्षणसमन्वयो बोभ्यः (अलंकारचन्द्रिका) ।
अलंकाराणां च शोमातिशायित्वमुक्तम् – शब्दार्थयोरस्थिरा ये धर्माः
शोभातिशायिनः । रसादीनुपकुर्वन्तोलंकारास्तेङ्गदादिवत् ॥ इति ।
२ हारादिभूषणमलंकार इति काव्यज्ञा वदन्ति ।
 
अलब्धभूमिकत्वम् कुतश्चिन्निमित्तात्समाधिभूमेरलामः ( सर्व० सं० पृ०
३५५ पातड० )।
 
अलम् – १ समर्थम् । यथा सुखायालं भोजन मित्यादौ । अत्र अलमादि-
पदार्थैकदेशे सामर्थ्य सुखादिनिरूपितत्वं चतुर्य्या बोभ्यते । २ वैफल्यम् ।
यथा अलमनेनेत्यादौ ( श० प्र० पृ० १२६ ) ।
 
अलीकत्वम् – १ ज्ञानाविषयत्वम् । यथा शशशृङ्गादेरलीकत्वम् । अत्र
वेदान्तिनस्तु शशशङ्ग कुर्मरोमादीनि तुच्छशब्देन व्यवहरन्तीति बोध्यम् । २
अन्यव्यावृत्तिः । यथा नास्तिकमते अयं घटः इति ज्ञाने विषयीभूतस्य
घटत्वादेरली कत्वमित्यत्र । भयं भावः । अघटव्यावृत्तिरेव घटे घटत्वम् न
तु भावरूपम् । अभावस्तु तुच्छ एवेति नास्तिकैरम्युपगम्यते इति ( म०
प्र० १ पृ० ९ ) । अत्र नैयायिकाः नास्तिकमते शशशायलीकमस-
तख्यात्या सिष्यति । सा चासत्ख्यातिर्नोपपद्यते । ज्ञानविषयत्वस्यास्तित्व-
व्याप्यतया असत्ख्यातिविषयत्वस्य सैनिकृष्टमेदप्रतियोगितावच्छेदकत्या-
सिद्धेरिल्याडु ( म० प्र० पृ० १७ ) ।
 
अलौकिकत्वम् –[ क ] लोकावगतेष्टसाधनताश्रयान्यत्वम् । अत्र लोक-
शब्दार्थच वेदतदुपजीविप्रमाणा तिरिक्तप्रमाणम् । मथा नमस्कारादिकं
मङ्गलं बेदबोधितसमाप्तिसाधनताकम् समासुदेश्यकालौकिकाविगीत-
म्या को० ११