This page has not been fully proofread.

न्यायकोशः ।
 
साभ्याभावस्तत्र साधनाभावः । तथा च साध्याभावेन साधनाभावस्य
सिद्धावपि साध्यसिद्धौ न तस्योपयोगः । कथं तर्हि घूमादाषन्वयव्याप्तिम-
विदुषोपि व्यतिरेकव्याप्तिज्ञानादनुमितिरिति चेत् । अर्थापत्तिप्रमाणादिति
बोध्यम् । वेदान्तपरिभाषायां स्पष्टमेतत् ।
 
अर्थापत्तिसमः – ( जाति: ) [ क ] अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्ति-
समः ( गौ० ५/ १२ / २१ ) । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाइट-
वदिति स्थापिते पक्षे अर्थापत्या प्रतिपक्षं साधयतोर्यापत्तिसमः । यदि
प्रयत्नानन्तरीयकत्वादनित्यसाधर्म्यादनित्यः शब्द इति अर्थादापद्यते
नित्यसाधर्म्यान्नित्यः इति । अस्ति त्वस्य नित्येन साधर्म्यमस्पर्शत्वमिति
( वात्स्या० ५।१।२१) । [ख] अर्थापस्याभासेन प्रतिपक्षसाधनाय प्रत्य-
वस्थानम् । अयमाशयः- अर्थापत्तिर्युक्तेनानुक्तमाक्षिपति । यथा - अनित्यः
शब्द इत्युक्तेर्थादापद्यतेन्यन्नित्यम् । तथा च दृष्टान्तासिद्धिर्विरोधश्च ।
कृतकत्वादनित्य इत्युक्तेर्थादापनम् अन्यस्माद्धेतोबधः सम्प्रतिपक्षो वा ।
अनुमानादनित्य इत्युक्ते प्रत्यक्षानित्य इति च बाध: ( गौ० दृ०
५।१।२१ ) । [ग ] अर्थापत्तिपुरस्कारेण साध्याभावोद्भावनम् । यथा
अनित्यः शब्दः कार्यत्वादित्यादौ शब्दस्यानित्यसाधर्म्यादनित्यत्वं यदि
तदा अर्थापत्त्या सिद्धं नित्यसाधर्म्यान्नित्यत्वमपि । एकतरावधारणे नियाम-
काभावादिति ( नील० पृ० ४४ ) । [घ ] व्यातिं विना वादि-
वाक्यादर्थापेक्षाभिमानतः । विपरीतसमारोपमर्थापत्तिसमं विदुः ॥ (ता०
२० २ श्लो० १२० )।
 
.
 
अर्थी-साध्यस्यार्थस्य निर्देष्टा ( मिताक्षरा० अ० २ श्लो० ८० ) ।
 
अर्धोदयः – अमार्कपातश्रवणैर्युक्ता चेत्पौषमाघयोः । अर्धोदयः स विज्ञेयः
कोटिसूर्यप्रहैः समः ॥ ( पु० चि० पृ० ३१६ ) ।
 
अईन्- सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवो-
ईन्परमेश्वरः ( सर्व० सं० ५० ५६ आईत● ) ।