2023-02-20 00:54:17 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७९
पपद्यमानेनार्थेनोपपादककल्पनम् । यथा वृष्या मेघज्ञानम् ( गौ० वृ०
२।२।१ ) । [ग] यत्रामिषीयमानेर्ये योन्योर्थः प्रसन्यते सोर्यापत्तिः ।
यथा मेघेष्वसत्सु दृष्टिर्न भवतीति । किमत्र प्रसज्यते । सत्सु भवतीति
( वात्स्या० २।२।१ ) । [ष ] पुनरनुसंघीयमानशब्दासकृतमनु-
पपत्तिज्ञानमिति गदाधरभट्टाचार्याः । [ ] उपपाद्यज्ञानेनोपपादक-
कस्पनमर्थापत्तिः । तत्र उपपाद्यज्ञानं करणम् । उपपादकज्ञानं फलम् । येन
बिना यदनुपपनं तत्तत्रोपपाद्यम् । यस्याभावे यस्यानुपपत्तिस्तत्तत्रोपपाद-
कम् । यथा रात्रिभोजनेन विना दिवा अभुजानस्य पीनत्वमनुपपन्नमिति तादृ-
शपीनत्वमुपपाद्यम् । यथा वा रात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्ति-
रिति रात्रिभोजनमुपपादकम् । अत्र अर्थस्य आपत्तिर्नाम कल्पनेति षष्ठीस-
मासेन रात्रिभोजनकल्पनारूपायां प्रमितावर्थापत्तिशब्दो वर्तते । अर्थस्य
आपत्तिर्नाम कल्पना यस्मादिति बहुव्रीहिसमासेन कल्पनायाः करणभूते
पीनत्वादिज्ञानेपि वर्तते । एवं च फलकरणयोरुभयोरर्यापत्तिपदप्रयोगो
भवति । सा चार्थापत्तिद्विविधा - उष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्र
दृष्टार्थापतिर्यथा इदं रजतमिति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य नेदं
रजतमिति तत्रैव निषिध्यमानत्वं सत्यत्वे सति अनुपपन्नमिति रजतस्य मि-
प्यात्वं कल्पयति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्ति-
मुखेनार्थान्तरकल्पनं सा । यथा तरति शोकमात्मविदिव्यत्र श्रुतस्य शोक-
शब्दवाच्यवन्धजातस्य ज्ञाननिवर्त्यस्यानुपपत्या बन्धस्य मिथ्यात्वं कल्प्यते ।
श्रुतार्थापत्तिका द्विविधा - अभिधानानुपपत्तिरभिहितानुपपत्तिश्च । तत्र
यत्र वाक्यैकदेशश्रवणे अन्वयाभिधानानुपपत्या अन्वयाभिधानोपयोगि पदा-
न्तरं कल्प्यते तत्रामिधानानुपपत्तिः । यथा द्वारमित्यत्र पिधेहीत्यभ्याहारः ।
अमिहितानुपपत्तिस्तु यत्र वाक्याबगतोर्थोनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं
कल्पयति तत्र द्रष्टव्या । यथा स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र क्षणिक-
तया अवगतज्योतिष्टोमस्य स्वर्गसाधनत्वानुपपस्या मध्यवर्त्यपूर्व कल्प्यते ।
भत्र नैयायिका:- अर्यापत्तिर्न प्रमाणान्तरम् । किंतु व्यतिरेकव्यास्या
अनुमाने अन्तर्भावादिति । वेदान्तिनां मते तु व्यतिरेकन्यातिर्नाम यत्र