This page has not been fully proofread.

न्यायकोशः ।
 
वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति ( कृष्णयजु:-
संहिता २।१।१ ) इत्यादौ वायुर्वे क्षेपिष्ठेत्यायर्यवादो हि वायव्य श्वेत-
मालमेतेत्यादिविधिविहितं श्वेतपश्वालम्भनं श्वेतपशुकरणको यागः प्रशस्तः
इति प्रशंसतीति विज्ञेयम् । सोरोदीघदरोदीत्तद्रुद्रस्य रुद्रत्वम् ( कृष्णयजु:०
१/५/१ ) इति वाक्यं तु कतावृत्विग्भ्यो रजतं न देयम् इति निषिद्धं
तु
रजतदक्षिणादानं निन्दतीति बोध्यम् । अर्थवादचतुर्विधः । स्तुतिः
निन्दा परकृति: पुराकल्पः ( गौ० २।१।६४ ) । प्रकारान्तरेण स
त्रिविधः । गुणवाद: अनुवाद: भूतार्थवादश्चेति ( न्या० म० ४
पृ० ३० ) । तदुक्तम् - विरोधे गुणवादः स्वादनुवादोषधारिते । भूता-
र्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति ( न्या० म० ४ १० ३१ ) ।
मीमांसकास्तु विधिशेषः निषेधशेषश्वेत्यर्थवादं द्वैविध्येन विमेजिरे
(लौ० भा० ) ।
अर्थान्तरम् – ( निग्रहस्थानम् )
 
[ क ] प्रकृतादर्थादप्रतिसंबद्धार्थमर्था-
न्तरम् ( गौ० ५/२/७ ) । यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः
साध्यसिद्धौ प्रकृतायां ब्रूयात् । नित्यः शब्दः अस्पर्शत्वादिति हेतुः ।
हेतुर्नाम हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तपदम् । पदं च नामाख्यातोप-
सर्गनिपाताः । अभिधेयस्य क्रियान्तर योगाद्विशिष्यमाणरूपः शब्दो नाम ।
क्रियाकारकसमुदायः । कारकसंख्याविशिष्टक्रिया काळयोगाभिधाय्याख्या-
तम् । धात्वर्थमात्रं च कालाभिधानविशिष्टम् । प्रयोगेष्वर्यादभियमान-
रूपा निपाताः । उपसृज्यमानाः क्रियावद्योतका उपसर्गाः इत्येवमादि ।
तदर्थान्तरं वेदितव्यम् ( बात्स्या० ५/२।७ ) ( नील० १० १५ ) ।
[ख] प्रकृतोपयुक्तमर्थमुपेक्ष्यासंबद्धार्थाभिधानम् । प्रकतानाकाङ्क्षता-
मिधानमिति फलितार्थः । यथा अनित्यः शब्दः कृतकत्वादित्युक्त्वा शब्दो
गुणः स चाकाशस्येत्यादि (गौ० ० ५॥२७) (त० मा० पृ० ५१)
( दि० १ पृ० २२ ) ।
अर्थापतिः~~( अनुमानम् ) [ क ] वाक्यार्थसंप्रत्ययेनानमिहितस्यार्थस्य
प्रत्यनीकभाबाद्ब्रहणमर्थापत्तिः ( बास्स्या० २ । २ । २ ) । [ख] भनु-
७८