This page has not been fully proofread.

व्यायकोशः ।
 
वा अनित्यः शब्दो निरोधधर्मको ध्वान इति ( वात्स्या० ५/२/१४ ) ।
[ ख ] अर्यादापत्रस्य स्वशब्देन पुनर्वचनम् ( गौ० ५१२११५ ) ।
पुनरुक्तमिति प्रकृतम् । निदर्शनम् । उत्पत्तिधर्मकत्वादनित्यमित्युक्त्वा
अर्यादापत्रस्य योमिधायकः शब्दस्तेन स्वशब्देन ब्रूयादनुत्पत्तिधर्मकं
नित्यमिति । तथ पुनरुक्तं बेदितव्यम् । अर्थसंप्रत्ययार्थे शब्दप्रयोगे
प्रतीतः सोर्थोर्थापत्येति ( वात्स्या०५/२/१५ ) । [ ग ] यस्मिनुक्ते
यस्वार्थस्मौस्सर्गिकी प्रतिपत्तिर्भवति तस्य तेन रूपेण पुनरभिधानं पुन
दक्तम् । इदमेव चार्थपुनदक्तमिति गीयते । यथा वह्निरुष्ण इति । पूर्व-
पदाक्षितोक्तिरियम् । उष्णो बहिरिति उत्तरपदाक्षिप्तोक्तिः । एवं बहि-
रस्ति गेहे नास्ति इति विभ्याक्षिप्तोक्तिः । जीवन्हे नास्ति बहिरस्ति
इति निषेधाक्षिसोक्तिः ( गौ० १० ५/२/१५ ) ।
 
spending and
 
। स चायं
 
अर्थवादः - ( शब्दः ) अर्थस्य प्रयोजनस्य वादो वादनम् । विध्यर्थप्रशंसापरं
बचनमित्यर्थः । अर्थवादो हि स्तुत्यादिद्वारा विध्यर्य शीघ्रं प्रवृत्तये
प्रशंसति ( गौ० ० २/१२/६३ ) । निषिद्धार्थ शीघ्रं निवृत्तये निन्दति
अर्थबाद: लोके वेदे च समान: ( त० कौ ०
४।१७ ) । तत्र लौकिक:- ओदनकामस्तण्डुलं पचेत तृप्तिकामस्तण्डु-
लौदनं मुजीतेत्यादौ विध्यर्थस्य तण्डुलपाककरणस्य तण्डुलौदनभोजन-
रूपस्य च स्तावकं तपाक ऋषिभिः पूर्व स्वर्गाद्यर्थं कृतः ओदनम-
मृतम् इत्यादि वाक्यम् । एवं कफज्वरपीडितो दुग्धं न पिबेदित्यादि-
निषेधविधिस्थलेपि दुग्धपानस्य निन्दकं पञ्चभिर्मक्षितेनापभ्यतृणादिना
दुग्धं जन्यते तच विषरूपमित्यादिकं वाक्यम् । वैदिकोदाहरणानि स्वनु-
पदं प्रदर्श्यन्ते । अर्थबादश्च विधिनिषेधभिन्नः शब्दः । यथा- आदित्यो
यूपः अग्निहिंमस्य भेषजम् वज्रहस्तः पुरंदर इत्यादि ( त० कौ० g
पृ० १७ ) । अत्राचं गुणवादोदाहरणम् । द्वितीयम नुवादोदाहरणम् ।
तृतीयं भूतार्थवादोदाहरणम् । प्राशस्त्यनिन्दान्यतरपरं वाक्यं चार्थवादः
(० मा० ) । यथा बासुर्वे क्षेपिष्ठा देवतेत्यादिः । सोरोदीदिया-
दिर्वा । अत्र च वायव्य ४ वेतमालमेत भूतिकामो वायुर्वे क्षेपिष्ठा देवता