This page has not been fully proofread.

न्यायकोचः ।
 
तदुक्तं प्रशस्तदेवाचार्यैः -- त्रयाणामर्थ शब्दा मिषेयत्वं च इति ( बै० उ०
८।२।३ ) । [ख] अर्थ इति शब्दो द्रष्यगुणकर्मसु बर्तते । स च तत्र
पारिभाषिकः । गौतमीये तु गन्धरसरूपस्पर्शा: पृथिव्यादिगुणास्तदर्थाः
(गौ० १।१।१४ ) इत्युक्तम् । अतः पञ्चेन्द्रियप्राधेषु पञ्चसु गुणेष्वपि
अर्थशब्दस्य परिभाषान्तरं समानतन्त्र सिद्धम् (वै० वि० ८।२।३ ) ।
२ यत्परः शब्दः सः ( चि० ) । यथा षट् पदार्थाः । ते व
द्रव्यगुणकर्मसामान्यविशेषसमवायाः ( स० भा० २७ ) ( बै० ११
१।४ ) । प्रमाणादयोर्था गौतमसूत्रपठिताः षट्खेवान्तर्भवन्ति । प्रयोजन-
वशात्तु मेदेन निरूपिता इति बोध्यम् ( त० मा० २७ ) । अयं च
शब्दार्थ इत्युच्यते ( चि० ४ ) (ग० शक्ति ० ) । अयमर्थो नैयायिक
मते द्विविधः । वाच्यः लक्ष्य इति । व्यप्रयोपि तृतीयोर्थ इत्यालङ्कारिका
आहुः ( काव्य० २ ) । वृत्या पदप्रतिपाद्यः अर्थ इत्युच्यते ( ग०
शक्ति० ) । यथा घटशब्दस्यार्थः कम्बुप्रीवादिमान् । ३ प्रकारः
( वाक्य ० ) । यथा अर्थाबाधो योग्यतेत्यादावर्थः प्रकार: । अत्र जलेन
सिञ्चतीत्यादौ जलकरणकत्वरूपप्रकारस्य सेचनक्रियायामबाध इति
बोध्यम् । ४ निवृत्तिः । यथा - अनुमानं परार्थमित्यादौ (चि० अव०
२।७६ ) । अत्र परस्य मध्यस्थस्यार्थः संशयस्य निवृत्तिर्यस्मादिति
व्युत्पत्यानुमानस्य संशयनिवृत्तिफलकत्वरूपं परार्थत्वं युज्यत इति
बोध्यम् । ५ यदाकाङ्क्षया यत्प्रवर्तते स ( फलम् ) तस्यार्थ: ( मू० म०
१) । ६ विधिजन्यबोधविषयः ( धर्मः ) अर्थ इति मीमांसका आदुः ।
७ धनमर्थ इति लौकिकजना वदन्ति । ८ विषयः । तथा चोक्तम्-
अर्थाः स्युरिन्द्रियग्रायाः इति ( ता० र० श्लो० २९ ) ।
अर्थनिचयप्रसङ्गः – तत्कार्यनिष्कम्पप्रवृत्त्यादिप्रसङ्गः ( ग० बाघ ० ) ।
अर्थपुनरुक्तम् – (निग्रहस्थानम् ) एतस्य प्रमादादिना संभवः ( गौ०
वृ० ५।२।१४ ) । [क] अर्थस्य पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्
गौ० ५।२।१४ ) । समानार्थकमिन्नानुपूर्वी कशब्दस्य निष्प्रयोजनं पुन-
रभिधानम् । यथा घट: कलश इति ( गौ० १०५/२।१४ ) । यथा
 
OF