This page has not been fully proofread.

न्यायकोशः ।
 
पथा शुक्तौ इदं रजतम् इति ज्ञानम् । एतानि च पूर्वोक्तानि लक्षणानि
स्मृतिसाधारणान्यपि भवन्ति इति बोध्यम् । शुक्तौ इदं रजतम् इति
ज्ञाने प्रसिद्धशुक्तिरजतत्वयोरलीक एव समवायो भासत इत्यसख्यातिं
वाचस्पतिमिश्रा अङ्गीचक्रुः (सि० च० १११९ ) । मीमांसकास्तु अय-
थार्थज्ञानमेवाप्रसिद्धम् । पुरोवर्तिज्ञानरजतस्मरणाभ्यामेष रजतानयने प्रवृ
युपपत्तेरिति बदन्ति ( सि० च० ११ १९) ।
 
अयथार्थानुभव: – अप्रमावदस्यार्थोनुसंधेयः (मु० ) ( सि० च० ) ।
अयनम् - ऋतुत्रयं चायनं स्यात् (विष्णुध ० ) ( पु० चि० पृ० ९)।
अयाचितम् - [ क ] संकल्पोत्तरं याथां विना लब्धस्य दिने रात्रौ वा
भोजनयोग्यकाले सकड्रोजनम् । अयाचितालाभे उपवासः । एतदन्य-
तरदयाचितस्वरूपम् । [ख] याचनां विना अन्येन दत्तस्य भोजनमया-
चितम् ( पु० चि० पृ० ४९ ) ।
 
अयुतसिद्धम् - ययोर्द्वयोर्मध्य एकम विनश्यदपराश्रितमेवावतिष्ठते तावयुत-
सिद्धौ । नाशपूर्वक्षणपर्यन्तमित्यर्थः । अत्रेदं बोध्यम्-न घटाद्यवयवी
कपालाद्यवयवासंबद्धः सन् तिष्ठति ( ३० वि० ७।२।१३) ।
अवयव्यादयो हि अविनश्यन्तोषयवाद्याश्रिता एवावतिष्ठन्ते । अवयवा-
दिनाशानन्तरं विनश्यन्तस्तु क्षणमात्रं निराश्रिता एवावतिष्ठन्त इति
( त० कौ० २० ) । अयुतसिद्धौ च पञ्चविधौ । यथा – अवयवावय-
विनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति
( त० सं० ) ( त० कौ० २०) (त० मा० पृ० ३ ) ।
अर्कदेवत्यम् – ( नक्षत्रम्) हस्तः ( पु० चि० पृ० ३५७)।
अर्चा - प्रतिमादयः ( सर्व० सं० पृ० ११५ रामानु० ) ।
अर्जनम् –स्वत्वजनकव्यापारः । यथा याजनाध्यापनप्रतिग्रहैर्द्विजो धन-
मर्जयेदिति श्रुतौ धात्वर्थः ( श० प्र० ८५ ) ।
 
अर्थः - १ अर्थ इति द्रव्यगुणकर्मसु (वै० ८।२।३ ) । एतस्य व्याख्या-
[ क ] एतेषां द्रव्यगुणकर्मणामर्थ्यमानत्वं तेन तेन विधिनोक्तम् । तेन
तेषु त्रिषु वैशेषिकाणामर्थ इति परिभाषा । अर्थपदेन त्रयाणामुपस्थितेः ।