2023-02-20 00:54:16 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
अस्तु द्रव्यं शब्द इति ( वात्स्या ० १।१।३१ ) । यथा वा सूत्रकृता-
भ्युपगत मित्यादाबभ्युपगमः ( गौ० १० १/१।३१ )।
अभ्युपगमसिद्धान्तः - ( सिद्धान्तः ) [ क ] अपरीक्षिताम्युपगमात्तद्वि-
शेषपरीक्षणमभ्युपगमसिद्धान्तः ( गौ० १/१/३१ ) । यत्र किंचिदर्थंजात-
मभ्युपगम्यते अस्तु द्रव्यं शब्दः स तु निस्योथानित्य इति द्रव्यस्य सतो
नित्यता अनित्यता वा तद्विशेषः परीक्ष्यते सोभ्युपगमसिद्धान्तः खबु-
द्व्यतिशयचिख्यापयिषया परबुद्धयवज्ञानाच प्रवर्तत इति ( वात्स्या
१।१।३१ ) । [ ख ] साक्षादसूत्रिताभ्युपगमः । यथा मनस इन्द्रियत्व-
मिति ( गौ० वृ० १ । १ । ३१ ) । [ग] ] तच्चान्तरसिद्धः स्वयमभ्यु -
पगतः । यथा वैशेषिकाभ्युपगतस्य मनसीन्द्रियत्वस्य नैयायि केनाम्यु
पगम इति ।
अमर्पः - ( दोषः ) कृतापराधे असमर्थस्य द्वेष: ( गौ० ० ४।१।३) ।
अमावास्या ~ सूर्याचन्द्रमसोर्यः परः संनिकर्षः सा तिथि: (पु० चि० ३३ ) ।
अमूर्तगुणत्वम् [क] मूर्तगुणवृत्तिः संस्कारत्वान्या गुणत्वव्याप्या च या
जातिस्तच्छ्रन्यगुणत्वम् । अत्र तादृशी जाति: रूपत्वरसत्वादिर्भवति। तच्छ्र-
न्यत्वं बुद्धयादौ वर्तत इति लक्षणसमन्वयः । अमूर्तगुणाच बुद्धिः
सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना शब्दबेति
दश सन्ति ( भा० प० गु० १९२ ) । [ ख ] मूर्तताभावव्याप्यता-
चच्छेदिका परिमाणावृत्तिश्च या जातिस्तद्वत्त्वम् ( दि० गु० १९२ ) ।
यत्र यत्र बुद्धयादयः अमूर्तगुणास्तत्र तत्र मूर्तत्वाभाव इति नियमेन
बुद्धित्वसुखत्यादिजाति र्मूर्तत्वाभावस्य व्याप्यतावच्छेदिका भवतीति बोध्यम् ।
[ग] मूर्तावृत्तिः संख्यादिपञ्चकमिन्नो यो गुणस्तस्त्वम् (ल० २०३६ ) ।
अयथार्थबुद्धिः - ( बुद्धिः ) [क] अर्थव्यमिचार्य प्रमाणजन्यं ज्ञानम्
( त० मा० ) । भत्रायथार्थत्वं च तदभाववति तत्प्रकारकत्वम् ।
[ख] प्रमाणाभासजन्यं ज्ञानम् ( त० कौ० ६ ) । [ग] तच्च्छ्रत्ये
तन्मतिः ( भा० प० गु० लो० १२८) । [] यत्र यनास्ति तत्र
तस्य ज्ञानम् । [ ङ ] तदभाषवति तत्प्रकारकं ज्ञानम् (चि० १९९० ) ।
OF