This page has not been fully proofread.

न्यायकोचः ।
 
अभाव: - १ ( पदार्थः ) [ ] असमषायत्वे सत्यसमवायः ( सर्व ० go
२३२ औलु० ) । समवायमिनत्वे सति समवायशून्य इत्यर्थः । [ख]
भावमिन्नः प्रतियोगिज्ञानाधीनहानविषयः । [ग] माध्यास्तु प्रथमप्रतीतौ
यः नास्ति इति प्रमाविषयः सः अभावः इत्याहुः (प्र० च० परि० पृ०१९) ।
अभावश्चतुर्विधः । प्रागभावः प्रध्वंसः अत्यन्ताभावः अन्योन्याभावचेति
( त० सं० ) । अभावपदार्थस्योपयोगमाह न्यायलीलावतीकारः अभावो
बक्तव्यो निःश्रेयसोपयोगित्वाद्भावप्रपञ्चत् इति । कारणाभावे कार्याभाबस्य
सर्वमतसिद्धत्वादुपयोगित्वसिद्धि: ( न्या० ली० पृ० १ - २ ) । अन्ये तु
अभावो द्विधा-संसर्गाभावः अन्योन्याभावः । आयस्त्रिविधः प्रागभावः
प्रध्वंसः अत्यन्ताभाषः इति ( मा०प० लो० १२ ) ( व० कौ०
२१ ) । द्वितीयस्त्वेकविध एवेति (मु० १४१ ) । अत्र संसर्गाभावत्वं
च तादात्म्येतरसंसर्गावच्छिन्न प्रतियोगिताकाभावत्वमिति संप्रदायः ।
भेदेतराभावत्वमिति नव्याः ( प० मा० ) । अत्रेदं बोभ्यम्-
अभावश्च भावमिन्नः पदार्थः । तत्र भावत्वं च द्रव्यादिषद्वान्य-
तमत्वम् । अथ वा समवाय एकार्यसमवाय एतदन्यतरसंबन्धेन
सत्तावत्त्वम् ( ल० व० २-३ ) । अभावलक्षणं चाभावत्वमेवेति
बोध्यम् । अभावविषये केचन नियमाः संभवन्ति । तत्र प्रथमः -अৰ-
च्छेदकमेदः अभाबमेदनियामक इति । द्वितीय:-विशेषाभावकूटानां सामा-
न्यधर्मावच्छिन्न प्रतियोगिताकत्वं स्वीक्रियत इति ( दीधि ० २) । ।
तृतीयः अभावप्रत्यक्षं प्रति योग्यानुपलब्धिः कारणम् । तथा हि ययत्र
घट: स्मातर्मुपलभ्येत इति तर्कितया घटसत्त्वस्य प्रसत्त्या आपादिताया
घटविषयकोपलब्धेरभावो घटाभावप्रत्यक्ष इन्द्रियस्य सहकारीति ।
भास्तु अभावो नेन्द्रियप्रायः कृतसंनिकर्षाणामभाषात् । किंतु
अनुपलब्धिरूपप्रमाणगम्य इत्याहुः । चतुर्थः - एकप्रतियोगिकयोर-
प्यत्यन्ताभावान्योन्याभावयोः प्रतियोगितावच्छेदकधर्मप्रतियोगितावच्छेद-
कसंसर्गमेदाद्वहुत्यम् । तत्र प्रतियोगितावच्छेदक धर्मसंसर्गमेदादल्यन्तामा-
बबहुत्वम् प्रतियोगितावच्छेदकधर्ममेदादयोन्याभावबहुत्वम्
 
-