2023-02-20 00:54:14 by ambuda-bot
This page has not been fully proofread.
वाहशक्षरणांशे विशेषणीभूतस्य ( परंपरया घालर्यतावच्छेदकरण )
विभागस्याश्रय इति गोरप्रधानकर्मत्वं बोध्यम् ( ग० म्यु० २ ) ।
शब्दशक्तिप्रकाशकारास्तु मोचनानुकूलव्यापारी दुहेरर्थः । मोचनं च
महिःक्षरणानुकूला किया। तादृशक्रियायाः साक्षाद्धात्वर्यतावच्छेदकी-
भूताया आश्रयो गौरिति गोः प्रधानकर्मस्वम् । पयसस्तु परंपरया धात्व
र्यतावच्छेदकीभूतबहिःक्षरणात्मकफलाश्रयत्वेन गौणकर्मत्वमित्यङ्गीचक्रुः
( श० प्र० ९८ ) । अत एव पयःप्रभृतेर्गोणकर्मत्वसंपत्तये अकथितं
च ( पा० ११४/५१ ) इति सूत्रान्तरम् ( श० प्र० ९६ ) ।
अप्रधानत्वम् - १ गौणत्ववदस्यार्थोनुसंधेयः । २ कर्मणः अप्रधानत्वं च
अप्रधानक्रियाफलाश्रयत्वम् । ३ प्राधान्यं हि विधेर्यत्र प्रतिषेधेप्रधान-
तेति भाट्टा: ( वाच० ) ।
अप्रमा- (बुद्धिः ) [ क ] तच्छ्रन्ये तन्मति: (भा०प० गु० श्लो० १२८) ।
इयं च दोषाजन्यते । दोषास्तु पित्तमण्डूकबसाजनादयो नानाविधाः ।
तथा हि कचित्पित्तभ्रमे पित्तं दोषः । कचिचन्द्रादेः स्वल्पपरिमाणअमे
दूरत्वं दोषः । कचिच्च वंशोरगभ्रमे मण्डूकबसाञ्जनम् । एवंरूपा दोषा अन-
नुगता एव भ्रान्तिजनका इति ( भा०प० श्लो० १३२ ) (मु० गु०
२११ ) । अधिकं तु भ्रमशब्दव्याख्यानावसरे संपादयिष्यते । [ख]
प्रमाणाभासजन्यः अयथार्थानुभव: ( त० कौ० ६ ) । [ ग ] यत्र
यन्नास्ति तत्र तस्य ज्ञानम् । [ घ ] तदभाववति तरप्रकारकानुभव:
( चि० १ । १० ) । यथा पुरोवर्तिन्येवारजते शुक्त्यादी इदं रजतम् इति
रजसारोपः ( त० भा० ४० ) । अप्रमा त्रिविधा । संशयः विपर्ययः
तर्कश्चेति ( त० सं० ) ( त० मा० ४०) । प्रकारान्तरेणाप्रमा द्वेषा ।
भ्रमः संशयश्च । तत्र भ्रमो विपर्ययतर्कावित्युच्यते ( त० कौ० ६)
( मा० प० श्लो० १२८- १२९ ) ( मु० गु० २०९ ) ।
अप्रातकालम् – ( निग्रहस्थानम् ) [ ] अवयवविपर्यासवचनमप्रातका-
कम् ( गौ० ५/२/११) । प्रतिज्ञादी नामवयवानां यथावक्षणमर्थवशा-
१ अप्रधानतेति पदच्छेदः ।