This page has not been fully proofread.

न्यायकोशः ।
 
अपोह: - १ अतद्वधावृत्तिः । यथा विज्ञानवादिबौद्धमते नीलस्वादिर्धर्मः अनी-
लव्यावृत्तिरूपः ( दि० १ ) । तन्मतेयं धर्मोपारमार्थिक एवेति सर्वस्यापि
विज्ञानरूपत्वं क्षणिकत्वं चेति च ज्ञेयम् । २ अपरतर्कनिरासाय कृतो
विपरीततर्कः । यथा शुश्रूषा श्रवणं चैव ग्रहणं धारणा तथा । ऊहोपो-
होर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ इति हेमचन्द्रोक्तो बुद्धिगुणमेदः । यथा
वा स्वयमूहापोहसमर्थ इत्यादी । ३ व्याग इति काव्यज्ञा बदन्ति
( बाच० ) ।
 
अवम् – ( जाति: ) सरित्सागरसमवेतत्वे सति ज्वलनासमवेतं सामान्यम्
( सर्वद० सं० पृ० २१८ औलु० ) ।
 

 

 
अप्रतिपत्तिः - [क] आरम्भविषये अनारम्भः
प्रतिषेधति । प्रतिषेधं वा नोद्धरति ( वात्स्या०
वाननुभाषणाज्ञानादिनि ग्रहस्थानप्रयोज्या ( वात्स्या०
[ ख ] प्रकृताज्ञानम् ( गौ० वृ० १/२/६० )।
अप्रतिभा - (निप्रस्थानम् ) [ क ] उत्तरस्याप्रतिपत्तिरप्रतिमा ( गौ०
५।२।१९ ) । परपक्षप्रतिषेध उत्तरम् । तद्यदा न प्रतिपद्यते तदा निगृ-
हीतो भवति ( वात्स्या ० ५/२/१९ ) । [ ख ] उत्तराई परोक्तं
बुध्यापि यत्रोत्तरसमय उत्तरं न प्रतिपद्यते तत्राप्रतिभा ( गौ० १०
५/२/१९ ) ( दि० १) । [ग] उत्तरापरिस्फूर्तिः ( त० मा० ५१ ) ।
[ष ] उत्तराई परोक्तं बुभ्वाप्युत्तरस्यास्फूर्तिवशा सूष्णींभावः ( नील०
 
परेण स्थापितं वा न
११२१६० ) । इयं
१/२/६१ ) ।
 
४५-४६ ) ।
 
-
 
अप्रतिष्ठितः - १ निर्धनः ( मिताक्षरा० अ० २ श्लो० ११७ ) ।२
अनपत्यः ( मिताक्षरा० अ० २ लो० १४५ ) ।
अप्रधानकर्मत्वम् – ( कर्मत्वम्) परंपरया धात्वर्थताबच्छेदकफलशालि-
त्वम् ( ग० व्यु० २ ) ( श० प्र० ९६ ) । यथा गां दोग्धि पय इत्यादौ
गवादेरप्रधानकर्मत्वम् (ग० यु० २ ) । अत्र विभागावच्छिन्नक्षरणा-
नुकूलो व्यापारो दुइधात्वर्थः । तथा च धात्वर्थव्यापारांशे साक्षाद्विशेष-
ण ( साक्षाद्वात्वर्थतावच्छेदकस्य ) क्षरणस्याश्रयः पय एव । गौस्तु