This page has not been fully proofread.

न्यायकोशः ।
 
१०८३
 
सोन्यतरासिद्धोनभ्यबसायहेतुत्वादनध्यवसितः । यथा सत् कार्यमुत्पत्तेः
इति । अयमप्रसिद्धोनपदेशः (बै० ३।१।१५) इति वचनादविरुद्धः
( प्रशस्त ० २ १० ४७ ) इति । सोपि कणादमते संदिग्धादावन्तर्भवति
इति न त्रैविध्यविभागविरोध: ( त० व० ३।२ श्लो० ५६ पृ० ८४ ) ।
अत्र भाष्यम् एतेन अप्रसिद्धविरुद्धसंदिग्धानध्यवसितवचनानामनपदेशत्व-
मुक्तं भवति ( प्रशस्त ० २ १० ४६ ) इति । लीलावतीकारा अप्याडुः
हेत्वाभासाश्चत्वारः विरुद्धासिद्धसव्यभिचारानध्यवसिताः । बाधप्रतिरोधा-
त्रपि स्तः इति चेन्न । तयोः व्याप्तिपक्षधर्मता पहारेणैवानुमानदूषकत्वात्
सिद्धसाधनवत् ( न्या० ली० पू० ४३) इति । अत्रेदं चिन्त्यम् ।
उत्पत्तिकालीनो घटो गन्धवान्पृथिवीत्वात् इत्यादौ मूलावच्छिन्नो वृक्षः
कपिसंयोगी इत्यादौ चासंकीर्णदोषस्थले बाधस्यैवातिरिक्तदोषत्वमवश्य-
मङ्गीकर्तव्यम् ( भा०प० को० ७९ ) ( चि० २) इति । मञ्जरी-
प्रकाशकारस्तु आद्यक्षणावच्छिन्नो घटो गन्धवान् स्नेहात् इत्यादौ
व्यभिचारादिदोषपञ्चकमपि संभवति इत्याह ( म० प्र० २ पृ० २५) ।
होत्रकः — मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रका: ( जै० न्या०
अ० ३ पा० २ अधि० १२ ) ।
 
O
 
होमः
 
1
 
- [क] याग एव विशिष्टदेशप्रक्षेपोपहितो होम इत्युच्यते ( का०
व्या० कार० ४ पृ० ५)। यथा नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु
मध्ये देवयज्ञः । यथा वा आपस्तम्बीयैः क्रियमाणं श्राद्धीयविप्रपाणौ
श्राद्धीयान्नभागस्य मन्त्रेण दानम् ( पाणिहोमः ) ( श्रा० त० ) ।
[ ख ] व्यक्तस्य वह्नौ प्रक्षेपः होमः ( जै० न्या० अ० ४ पा० २
अधि० १३ ) । अत्र होमत्वं च मानसप्रत्यक्षगम्यो जातिविशेषः इत्यन्ये
आहुः ( दि० गु० धर्मनि० पृ० २३४ )।
 
होलाका - वसन्तोत्सवः ( जै० न्या० अ० १ पा० ३ अधि० ८ ) ।
होलिका सर्वदुष्टापहो होमः सर्वरोगोपशान्तिदः । क्रियतेस्यां द्विजैः
पार्थ तेन सा होलिका स्मृता ॥ (पु० चि० पृ० ३०९) । अत्र विशेषः
सार्धयामत्रयं वा स्यातीये दिवसे यदा । प्रतिपद्वर्धमाना तु तदा सा
होलिका स्मृता ॥ ( पु० चि० पृ० ३१२ ) इति ।
 
-