2023-02-20 00:57:52 by ambuda-bot
This page has not been fully proofread.
१०८२
न्यायकोशः ।
स्नेहस्य अनैकान्तिकः विरुद्धः इत्यादिपञ्चस्वव्यवहारः कथम् इत्याशङ्काया-
मुत्तरम् । उपधेयसंकरेप्युपाभ्यसंकरः इति न्यायादोषगतसंख्यामादाय
दुष्टहेतौ पञ्चत्वादिसंख्याव्यवहारः ( दीषि० २ हेत्वा० पृ० १७८) इति ।
तेन यत्र कचिद्धेताबेकविध एव दोषः कचि कचित्तु त्रयः पञ्चविधा
वा संभवेयुः तत्रापि तत्तद्व्यवहारः संगमनीयः इति । गौतमे मते हेवा-
भासः पञ्चधा सव्यभिचारः विरुद्धः प्रकरणसमः साध्यसमः कालातीत-
श्चेति (गौ० १ । २ । ४ ) । वृत्तिकारोपि अप्रसिद्धोनपदेशोसन् संदिग्ध-
श्वानपदेशः (वै० ३११/१५) इति सूत्रस्थचकारस्य बाधसत्प्रतिपक्ष-
समुच्चयार्थकतामुक्त्वा गौतमीयमेव मतमनुधावति (वै० उ० ३।१।१७
पृ० १६१) । पर्यायान्तरेण हेत्वाभासः पञ्चधा असिद्धः विरुद्धः
अनैकान्तिकः प्रकरणसमः कालात्ययापदिष्टश्चेति ( त० मा० ) ।
पर्यायान्तरेणापि हेत्वाभासः पञ्चधा सव्यभिचारः विरुद्धः असिद्धः
सत्प्रतिपक्षितः बाधितश्चेति ( न्या० म० २ पृ० २० ) ( त० सं० ) ।
एवं च अनुकूलतर्काभावादयः असिद्धभेदा एव । विशेषणासिद्ध विशेष्या-
सिद्ध असमर्थ विशेषण असमर्थविशेष्य असमर्थोभय संदिग्धासमर्थविशेषण
संदिग्धासमर्थविशेष्य संदिग्धासमर्थोभय इत्यादयः सहस्रधाभेदभिन्नासिद्ध-
प्रभेदाः स्वरूपासिद्धे अन्तर्भवन्ति (वै०८०३।१।१७५० १५८-१५९)
( त० मा० हेत्वा० पृ० ४५ ) । व्यर्थविशेषणस्तु व्याप्यत्वासिद्धे
अन्तर्भवति इति न हेत्वाभासाधिक्यम् इति विज्ञेयम् । काश्यपमते
( कणादमते) तु हेत्वाभासविधा असिद्धः विरुद्धः संदिग्धश्चेति । अत्र
भाष्यम् अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव
तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यादेकेन द्वितयेन वा । विरुद्धा-
सिद्धसंदिग्धमलिङ्गं काश्यपोब्रवीत् ॥ ( प्रशस्त ० २ पृ० ४४ ) इति ।
तथा हि काश्यपसूत्रम् अप्रसिद्धोनपदेशोसन् संदिग्धश्वानपदेशः ( ३०
३।१।१५) इति । अनध्यवसितो नामातिरिक्तश्चतुर्थो हेत्वामासः इति
केचिदाडु: ( प्रशस्त ० ) ( त० व० ३१२ लो० ५६ ५० ८४ ) ।
साध्यासाधकः पक्ष एव वर्तमानो हेतुः अनभ्यवसितः इत्युच्यते । तथा
च भाष्यम् यश्चानुमेये विद्यमानः तत्समानासमानजातीययोरसन्नेव