This page has not been fully proofread.

न्यायकोषः ।
 
न च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोरन्यतररूपशून्यतया हेत्वाभासत्वा-
पत्तिः । केवलान्वयिनि विपक्षासस्वस्य केवलव्यतिरेकिणि सपक्षसत्वस्य
गमकत्वौपयिकत्वाभावात् । एवं च आश्रयासिद्ध स्वरूपासिद्धभागासिद्धानां
पक्षसत्त्वरूपविरहादाभासत्वम् । व्याप्यत्वासिद्ध विरुद्ध साधारणानैकान्तिकानां
विपक्षासत्त्वरूप वैकल्यात् । असाधारणा नैकान्तिकानुपसंहारिणोः सपक्ष-
सवैकल्यात् । बाधित सत्प्रतिपक्षितयोरबाधितत्वा सत्प्रतिपक्षितत्वविरहात्।
एवम् सोपाधिकाप्रयोजकयोरपि विपक्षासत्त्वनिश्चयाभावादगमकत्वम् ।
 
अनुकूलतर्काभावप्रतिकूलतर्कयोरपि
 
विपक्षासत्त्वनिश्चयविरहात् । एबम्
 
साध्यविकलसाधनविकलोभयविकलदृष्टान्ताभासानां यदि हेत्वाभासविधया
दोषत्वम् तदा सपक्षसत्त्वानिश्चयात् । यदि स्वातध्येण दृष्टान्ताभासतया
तथापि द्वारं हेतोः सपक्षसत्त्वानिश्चय एव । अनुपदर्शितान्वयानुपदर्शित-
व्यतिरेकास्तु न्यूनाप्राप्तकालनिग्रहस्थान पर्यवसन्ना एव । आत्माश्रया-
न्योन्याश्रयचक्रकानवस्थास्तु व्याप्तिनिश्चयं विघटयन्तः सपक्षसत्त्वविपक्षा-
सत्त्वान्यतररूपविकला एवं हेत्वाभासतामापादयन्ति (वै० उ० ३।१।
१७ पृ० १५९-१६० ) इति । [ ङ ] असाधको हेतुत्वेनाभिमतः
( सर्व० पृ० २३९ अक्ष० ) । यथा हृदो बह्निमान् धूमात् इत्यादौ
धूमो हेत्वाभासः । अत्र वह्नयभाववद्धदो बाधः वढ्यभावव्याप्यवद्धदः
सत्प्रतिपक्षः धूमाभाववद्धदः स्वरूपासिद्धिश्च एतदोषत्रयवान् धूमो भवति
इति घूमो हेत्वाभासः । यथा वा वायुर्गन्धवान्स्त्रेहात् इत्यादौ स्नेहः
( दि० २ ) । यथा वा घटः पटोस्ति कुड्यत्वात् इत्यादौ कुड्यत्वं
हेत्वाभासः । हेत्वाभासस्य पञ्चविधत्वकथनमप्येतादृश स्थलाभिप्रायेणैव ।
तथा चात्र पञ्चानामपि दोषाणां संभवः । तथा हि गन्धाभाववद्वृत्तिः
स्नेह: साधारणानै कान्तिकः । गन्धव्यापकीभूताभावप्रतियोगी स्नेहो-
साधारणानैकान्तिकः । गन्धवदवृत्तिः स्नेहो विरुद्धः । स्नेहाभावबान्वा-
युरसिद्धिः तद्वान्स्नेहः असिद्धः स्वरूपासिद्धः । गन्धाभावव्याप्यवायुव
वान् वायुः सम्प्रतिपक्षः तद्वान्नेहः सत्प्रतिपक्षितः । गन्धाभावबान्वायु-
बषः तद्वान्स्नेहो बाधितब इति । एवम् घटः पटोस्ति कुड्यत्वात्
इत्यादावपि हेतौ पञ्चदोषवस्वमुन्नेयम् । अत्रेदं बोभ्यम् । एकस्यैव
१३६ न्या• को●