This page has not been fully proofread.

१०८०
 
न्यायकोचः ।
 
दृष्टान्तदोषम् अनुपदर्शितान्वयत्वादियुक्तिदोषम् आत्माश्रयत्वादिष्याषा-
तम् अनुक्तं त्रयमपि समुचिनोति ( सा० सं० पृ० १२०) । अत्र
चकारस्य दृष्टान्ते साधनवैकल्यादिसमुच्चायकत्वम् इति केचिदाहुः ।
तन्न । यथोक्ताः इत्यस्यानन्वयापत्तेः ( गौ० वृ० ५/२/२४ ) इति ।
अत्र भाष्यम् हेत्वाभासाश्च निग्रहस्थानानि हेत्वाभासलक्षणेनैव निग्रह-
स्थानभावः ( वास्या० ५।२।२४ ) इति । हेत्वाभासाः पुनर्यथा येन
रूपेण पूर्वम् ( गौ० सूत्रे १/२/४ - ९ ) उक्ताः तेनैव रूपेण तेषां
निग्रहस्थानत्वम् इति न लक्षणान्तरमपेक्षितम् ( गौ० दृ० ५/२/२४ )
( ता० २० परि० ३ लो० १५४) । ते च हेत्वाभासाः
निग्रहस्थानम् । निग्रहस्थानत्वं प्राप्तानां पुनरेषां पृथगुपदेशो वादे
देशनीयत्वात् । तथा च भाष्यम् निग्रहस्थानेम्यः पृथगुपदिष्टाः हेत्वाभासा
वादे चोदनीया भविष्यन्तीति ( वात्स्या० १ । १ । १ पृ० ६ ) । वार्तिक-
कारैरप्युक्तम् यस्मात्किलैते वादे देश्यन्ते अतः पृथगुपदिश्यन्ते न्याय-
सूत्रेण ( १११।१ ) ( न्या० वा० १ पृ० २० ) इति । [ख]
पञ्च रूपोपपन्नत्वाभावे सति तद्रूपेण भासमानः ( गौ० वृ० १।२।४ ) ।
पञ्च रूपाणि तु पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधिंतत्वम्
असत्प्रतिपक्षितत्वं चेति ( गौ० वृ० १ । २ । ४ ) (३० उ० ३११/१७) ।
[ग] पक्षधर्मत्वादीनां पञ्चानां रूपाणां मध्य एकेनापि रूपेण हीनो यो
हेतुः सोपि कतिपयहेतुरूपयोगाद्धेतुवदवभासमान: (त० मा० पृ० ४४ )
(वै० उ० ३।१।१७ ) ( त० व० ) । तथा चोक्तं तार्किकरक्षायाम्
हेतोः केनापि रूपेण रहिता: कैश्चिदन्विताः । हेत्वाभासाः पञ्चधा ते
गौतमेन प्रपचिताः ॥ ( ता० १० श्लो० ८० ) (वै० उ० ३।१।१७ ) ।
अत्र न्यायवार्तिकमपि अन्यतमलिङ्गधर्मानुविधानेन प्रवर्तमाना अहेतवः
सन्तो हेतुवदवभासन्त इति हेत्वाभासाः ( न्या० वा० १ पृ० २०)
इति । [ घ ] यस्य हेतोर्यावन्ति रूपाणि गमकतौपयिकानि तदन्यतर-
रूपहीनः स हेतुराभासः ( बै० उ० ३।१।१७ पृ० १५९ ) । एवं व
गमकतौपयिकाम्यतररूपशून्यत्वं हेत्वाभासत्वम् । तेन अन्यतररूपशून्य-
स्वस्य निश्चयवत् संदेहोप्यनुमितिप्रतिबन्धकः वादिहेतोरसाधकतासाधकः ।