2023-02-20 00:57:52 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०७९
वैकल्यं यथा मनः अनित्यं मूर्तस्वात् इत्यत्र यदनित्यं न भवति तन्मूर्ते
न भवति यथा परमाणुः इति । उभयाभाववैकल्यं यथा मनः अनित्यं
मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्ते न भवति यथा घटः ( प्र०
च० पृ० २८-३५ ) इत्यलं विस्तरेण । २ दुष्टो हेतु: [ क ] हेतु-
लक्षणाभावादहेतुर्हेतुसामान्याद्धेतुवदाभासमानः (वात्स्या० ११२४ ) ।
अत्र हेतुवदाभासते इति व्युत्पत्त्या हेत्वाभासपदस्य दुष्टहेतुः इत्यर्थः
( ग० २ हेत्वा० सामा० प्रस्ताव० पृ० २) । यद्वा हेतोराभासः
सदृश: ( न्या० बिन्दु० टी० परि० ३ पृ० ६६ ) । अत्र श्रुतमस्म-
गुरुमुखात् । अत्र सादृश्यं च पञ्चम्यन्तपदप्रतिपाद्यत्वेन इति सातारा-
ग्रामस्था स्त्रिपथगाकर्तारो गजेन्द्रगडकर इत्युपाडा राघवेन्द्राचार्याः प्राहुः
इति । दुष्टहेतोर्लक्षणं च सव्यभिचाराद्यन्यतमत्वम् ( न्या० म० ) ।
निरुक्तदोषवत्वं वा ( नील० २ हेत्वा० पृ० २४ ) । अत्र निरुक्त-
दोषस्तु हेत्वाभासशब्दस्य प्रदर्शिते प्रथमेर्थे दृश्यः । अत्रेदं विज्ञेयम् ।
हेतौ तादृशदोषविशिष्टत्वं च स्वविषयकज्ञान विषयत्व विशिष्टप्रकृतहेतु-
तावच्छेदकवत्त्व संबन्धेन बोध्यम् । तेन हेतुषु दोषसंबन्ध: ( दोषाणां
हेतुनिष्ठत्वम् ) संगच्छते ( दीधि ० २ हेला० पृ० १७९) ( ग०
हे० सामा० ) इति । हेत्वाभासप्रयोजनं तु इत्थम् । द्वयं धुद्देश्यम्
परानुमितिप्रतिबन्धः स्थापनाया असाधकतासाधकत्वं च । अत्रासाधकत्वं
च स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्त्रम् । तत्राद्यं दूषणमात्रज्ञानादेव।
द्वितीयं तु अलिङ्गत्वज्ञापनात् प्रतिबन्धकत्ववदनेनापि रूपेण दूषकत्व-
संभवः इत्यभिप्रायेण वा असाधकतासाघनत्वम् ( चि०२ हेत्वा०
पृ० १११ ) इति । किंच विपरीतकोटिसाधकस्य हेतोः हेत्वाभासत्व-
ज्ञानेन स्वस्य तत्त्वनिर्णयः ( प्रमितकोटिनिश्चयः साध्यवत्ताज्ञाने प्रमात्व-
निश्चयो वा ) भवति । स्वस्य परोक्तहेतौ हेत्वाभासत्वज्ञाने सति तत्र
दोषोद्भावनेन व्यायादिविशिष्टहेतोः संन्यायप्रयोगकरणेन च विजयोपि
भवति ( ग० २ हेत्वा - सामा प्रस्ताव० पृ० १-२) इति । अत्रेदं
बोध्यम् । हेत्वाभासो निग्रहस्थानमेव । तथा च सूत्रम् हेत्वाभासाथ
यथोक्ताः (गौ० ५।२।२४ ) इति । अत्र चकारः साध्यविकलत्यादि-