2023-02-20 00:57:51 by ambuda-bot
This page has not been fully proofread.
१०७८
न्यायकोशः ।
जतिः । यथा मे माता बन्ध्या इत्यादि । हेतुविरोधोपि द्विविधः स्वरूपा-
सिद्धिः अव्याप्तिश्चेति । तत्र स्वरूपासिद्धेरुदाहरणं शब्दो नित्यवाक्षुष-
त्वात् इति । अत्र चाक्षुषत्वं शब्दे नास्ति । तस्य श्रावणत्वात् इति ज्ञेयम्
( प्र० च० पृ० २९ ) । अव्याप्तित्रिविधः लिङ्गस्य साध्येन तदभावेन
च संबन्ध: साध्यसंबन्धाभावे सति तदभावेनैव संबन्ध: उभय संबन्धा-
भावश्चेति । तत्र आद्या यथा शब्दो नित्यः प्रमेयत्वात् इति । अयं हेतुः
साधारणा नैकान्तिकः इत्युच्यते नैयायिकैः इति ज्ञेयम् । द्वितीया यथा
शब्दो नित्यः कृतकत्वात् इति । अयं हेतुः विरुद्धः इत्युच्यते नैयायिकैः
इति विज्ञेयम् । तृतीया यथा सर्वमनित्यं सत्त्वात् इति । अत्र सर्वस्यापि
पक्षत्वेनोभयसंबन्धो नास्ति ( प्र० च० पृ० ३० ) इति । अयं हेतुः
अनुपसंहारी इति नैयायिकैरुच्यते इति विज्ञेयम् । दृष्टान्तविरोधोपि
द्विविधः साध्यवैकल्यम् साधनवैकल्यं चेति । तत्राद्यो यथा मनः
अनित्यम् मूर्तत्वात् परमाणुवत् इति । द्वितीयो यथा मनः अनित्यम्
मूर्तत्वात् कर्मवत् इति । अत्रेदं विज्ञेयम् । दृष्टान्ते साध्यवैकल्यसाधन-
वैकल्यादयः उदाहरणाभासाद्याश्च यथायथं निग्रहस्थानादावन्तर्भवन्ति
इति न हेत्वाभासाधिक्यम् इति नैयायिकानां सिद्धान्तः (दि० १) इति ।
आकाङ्क्षाविरहः असंगतिः । असंगतेरुदाहरणं तु ईश्वरवादिनं प्रति
क्षित्यादिकं सकर्तृकम् कार्यत्वात् घटवत् इति । अत्र अति-
साधन प्रयुक्तत्वादसंगतिर्भवति इति विज्ञेयम् ( प्र० च० पृ० ३०) ।
एवम् उदाहरणाभासा अपि दोषाः उदाहरणलक्षणरहिता उदाहरण-
बदवभासमानाः । ते चानेकप्रकाराः । तत्र साधर्म्मोदाहरणे तावत्
।
साध्य वैकल्यम् यथा मनः अनित्यम् मूर्तत्वात् इति । साधनवैकल्यं
यथा मनः अनित्यम् मूर्तत्वात् कर्मवत् इति । अत्राद्ये यन्मूर्ते तदनित्यम्
यथा परमाणुः इति साध्यवैकल्यम् । द्वितीये कर्मणः अनित्यत्वेपि
मूर्तस्वाभावात् साधनवैकल्यम् इति विज्ञेयम् ( प्र० च० पृ० ३४ ) ।
उभयवैकल्यं यथा मनः अनित्यम् मूर्तत्वात् आकाशवत् इति । वैधर्म्या
दाहरणे साध्याभाववैकल्यम् । यथा मनः अनित्यम् मूर्तत्वात् इत्यत्र
यदनित्यं न भवति तन्मूर्त न भवति यथा कर्म इति । साधनाभाव-