This page has not been fully proofread.

न्यायकोशः ।
 
१०७७
 
संशयमापादयननैकान्तिकादावेव पर्यवस्थति (वै० उ० ३।१।१७
पृ० १६० - १६१ ) इति । अत्रायमाशयः । यत्र वायुर्न प्रत्यक्षः नीरूप-
बहिर्दव्यत्वाद्गगनवत् इति साधिते वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्
घटवत् इति प्रत्यवतिष्ठते । तत्र हि सत्प्रतिपक्ष इत्युच्यते नैयायिकैः ।
न चात्र द्वयोर्यथार्थत्वं संभवति । न ह्येकमेव वस्तु प्रत्यक्षमप्रत्यक्षं च
भवितुमर्हति इति सुतरामेवान्यतरस्य भ्रान्तत्वमुपेयम् । तथा व अस्यापि
व्याप्त्यादिसंशयाधायकतयानैकान्तिकादावेवान्तर्भावः ( त० ब० पृ०
८५ ) इति । केर्षाचिन्मते अनध्यवसितत्वनामा चतुर्थोपि हेत्वाभासः
( प्रशस्त ० ) ( वै० उ० ) (मु० ) इति ।[ग] वेदान्तिनस्त्वाडुः ।
हेत्वाभासः ( हेतुदोषः ) उपपत्तिदोषः इत्युच्यते । उपपत्तिदोषो द्विविधः
(१) विरोध: (२) असंगतिश्चेति । तत्र आद्यः जातिनिग्रहस्थान-
हेत्वाभासेभ्यः संगृहीतः ( प्र० च० ) । स च विरोधस्त्रिविधः प्रतिज्ञा-
विरोधः हेतुविरोधः दृष्टान्तविरोधश्च । तत्र प्रतिज्ञाविरोधो द्विविधः
प्रमाणविरोधः स्ववचनविरोधश्च । तत्र प्रमाणविरोधोपि द्विविधः प्रबल-
प्रमाणविरोधः समबलप्रमाणविरोधश्च । तत्र प्रबलप्रमाणविरोधस्योदाहरणं
प्रपञ्चो मिथ्या दृश्यत्वात् यदृश्यं तन्मिध्या यथा शुक्तिरजतम् इति ।
अत्र सन् घट: इत्यादिप्रत्यक्षेण विमतं सत्यम् अर्थक्रियाकारित्वात्
संप्रतिपन्नवत् इत्याद्यनुमानेन विश्वं सत्यम् इत्यागमेन च जगतः सत्यत्वा-
वधारणात् प्रबलप्रमाणविरोधो द्रष्टव्यः ( प्र० च० पृ० २९ ) । अयं
हेतुर्नैयायिकैः बाधितः इत्युच्यते । समबलप्रमाणविरोधस्योदाहरणं तु
विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् विमतं सत्यम् प्रामाणिकत्वात्
आत्मवत् इति । अत्रानुमानद्वये व्याप्तिपक्षधर्मतयोः साम्यात् समबल-
प्रमाणविरोधो ज्ञातव्यः ( प्र० च० पृ० २९ ) । अयं च हेतुर्नैयायिकैः
सत्प्रतिपक्षितः इत्युच्यते । स्ववचनविरोधोपि द्विविधः अपसिद्धान्तः
जातिथेति । तत्र पूर्वाचार्यैर्यत् प्रामाणिकतयाभ्युपगतं तद्विरुद्धाङ्गीकारो-
पसिद्धान्तः । यथा निरीश्वरसांख्यमत ईश्वराङ्गीकारः । अयं भावः
पूर्वाचार्यवचनस्यापि स्वयमीतत्वेन स्ववचनत्वादपसिद्धान्तः स्ववचन-
विरोधो भवति ( प्र० च० पृ० २९) इति । स्ववचन एव स्वव्याहति-