This page has not been fully proofread.

१०७६
 
न्यायकोशः ।
 
ल० १ पृ० ३ ) । तत्र गौतमवृत्तिकारादीनां नैयायिकानां नये स हेत्वा-
भासः पञ्चविधः व्यभिचारः विरोधः सत्प्रतिपक्षः असिद्धिः बाधश्चेति ।
भत्र नैयायिक सिद्धान्तस्तु बाघसत्प्रतिपक्षभिन्ना ये हेत्वाभासास्तव्याप्या
अपि तत्रैवान्तर्भवन्ति । बाधव्याप्यस्यापि तु सत्प्रतिपक्षस्य स्वतन्त्रेच्छेन
मुनिना गौतमेन पृथगुपदेशान्न बाधेन्तर्भावः । सत्प्रतिपक्षव्याप्यस्तु
नानुमिति प्रतिबन्धकः । तद्वत्ताज्ञाने तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धक-
त्वेपि तदभावव्याप्यव्याप्यवत्ताज्ञानस्य प्रतिबन्धकले मानाभावान हेत्वा-
भासलक्षणाकान्तत्वं तस्येति पञ्चैव हेत्वाभासाः ( म०प्र० २ १०२८)
इति । अत्रायं भावः । सव्यभिचारत्वादयो ये दोषाः तयाप्या अपि
त एव भवन्ति । तथा च सव्यभिचारत्वव्याप्यं सव्यभिचारत्वमेव
विरुद्धत्वव्याप्यं विरुद्धत्वमेव इत्याद्यूह्यम् । परं तु बाधव्याप्यो भिन्न एव ।
स च सत्प्रतिपक्षो भवति । सत्प्रतिपक्षव्याप्यस्तु न सत्प्रतिपक्षः । तस्यानु-
मितिविरोधिस्वाभावेन हेत्वाभाससामान्यलक्षणानाकान्तत्वात् इति । अन्यत्र
चैवमुक्तम् । यत्र धार्मेणि यो धर्मो यादृशो हेत्वाभासस्तत्र तड्याप्यधर्मेपि
स एव हेत्वाभासो भवति विना सत्प्रतिपक्षम् । बाधव्याप्यस्तु
सत्प्रतिपक्षनामा हेत्वाभासो भिन्न एव । महर्षिणा गौतमेन पृथगुपदेशात्
अविरोधाच्च ( दीधि ० २ हेत्वा० पृ० २०४ ) ( मुक्ता ० २ १० १६७)
इति । कणादप्रशस्तपादादीनां वैशेषिकाणां नये हेत्वाभासस्त्रिविधः
असिद्धिः विरोध: संदिग्धत्वं चेति । संदिग्धत्वमनैकान्तिकस्वम् । अत्रेदं
तात्पर्यम् । बाधसत्प्रतिपक्षौ तु काश्यपीये ( काणादे ) मते न
स्वतन्त्रौ । तत्र बाध आश्रयासिद्ध्यादौ अनैकान्तिके वा पर्यवस्यति ।
अत्रेदमाकूतम् । पक्षस्य साध्यशून्यत्त्रे हि बाधत्वमाहुः । तच साध्य
शून्यत्वमत्र नातिरिच्यते । यत्र हि अश्वपिण्डं पक्षयित्वा अयं
गौर्विषाणित्वात् इति साध्यते तत्र साध्यस्य गोत्वस्य पक्षे वृत्तिर्नास्तीति
बाधत्वं वाच्यम् । तच्च कणादमतेनैकान्तिकत्वमेव । अत्रासिद्धिरप्यस्ति ।
पक्षेश्वपिण्डे विषाणित्वविरहात् । अत एवाहुः बाधोयमपक्षधर्मो हेतुर-
नैकान्तिको बा ( त० व० ३१२ लो० ५२-५३ पृ० ८३ ) (बै०
उ० ३।१।१७ पृ० १६१) इति । सरप्रतिपक्षोप्यन्यतरत्र व्याप्यादि-