This page has not been fully proofread.

न्यायः ।
 
अपूर्वविधि:- ( विधिः ) [ क ] प्रापको विधिः । स च यागा-
दीनामिष्टसाधनत्वस्य कृतिसाध्यत्वस्य वा बोधको लिखादिशब्दः । यथा
स्वर्गकामो यजेतेत्यादौ ( सि० च० ३३ ) ( वाच० ) 1 अशासप्राप-
कत्वं च प्राथमिकप्रवृत्तिजनक प्रतीतिजनकत्वम् प्रमाणान्तरज्जन्यप्रतीत्य-
विषयविषयकप्रतीतिजनकत्वं वा । इदं यजनं तु केनापि प्रमाणान्तरेण
न बोधितम् ( सि० च० ३३ ) । अत्रेदं बोध्यम्-लिडा यागादाविष्ट-
साधनत्वं बोग्यत इति नैयायिकाः । कार्यत्वेनापूर्वे बोध्यत इति प्राभाकरा
मन्यन्ते ( वाच० ) । [ ख ] प्रमाणान्तरेणाप्राप्तप्रापको लिखादिपदवे-
दनीयः शब्दविशेषः । यथा स्वर्गकामो यजेतेति लिङादियुक्तं बाक्यम् ।
अपूर्वविधिश्चतुर्विधः । कर्मविधिः गुणविधिः विनियोगविधिः प्रयोगविधि-
श्वेति । तत्राग्निहोत्रं जुहोतीत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः कृतिसा
ध्यतायाः भाषनाया वा मतमेदेन बोधनात् कर्मविधित्वम् । द्रव्यदेवतादि-
विधायकविधिर्गुणविधिः । यथा दना जुहोतीत्या दिवाक्यम् । प्राप्तस्याग्नि-
होत्रस्यानुवादेनाप्राप्त गुणरूपद्रव्यादे: ( दध्यादेः ) विधानात् । विनियोज
नाद्विनियोगविधिः । यथा ऐन्द्या गार्हपत्यमुपतिष्ठते इत्यादि । अत्र रेन्द्या
ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोगविधिः । एवं कृत्वा एबं
कुर्यात् इत्यादिप्रयोगज्ञापको विधिः प्रयोगविधिः । यथा अघीत्य
नायादित्यादि उपसद्भिश्वरित्वा मासमेकमग्निहोत्रं जुहोतीत्यादि च । अयं
च विशिष्टविधिरिति मेदः ( वाच० ) । [ ग ] यस्य यदर्थत्वं प्रमाणा-
न्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सोपूर्वविधिः । यदाहु: विधिर-
त्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति
गीयते ॥ ( मी० न्या० १० ४६ ) । विस्तरस्तु विधिशब्दे दृश्यः ।
अपेक्षा - १ आकाङ्क्षा । सा च शाब्दबोषप्रयोजनिका । २ असामर्थ्यम् ।
अत्यामपेक्षायां च प्रायशो दुत्तिर्नेष्यते । यथा प्रवीरं पुत्रकाम्यति
ऋद्धस्य राजमातङ्ग इत्यादौ प्रत्ययसमासौ न स्वः । तत्रोक्तम्-सापेक्षे
प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्तविशेष-
घ्णम् ॥ इति । ३ प्रयोजकत्वम् । तब ज्ञाने सितौ उत्पचौ वा इतरस्यानु-
-
 
-
 
-