This page has not been fully proofread.

न्यायकोशः ।
 
प्रयुक्तस्तदुत्तरमनुमितावनाहार्यमानसज्ञाने वा पक्षतावच्छेदकविशिष्टपक्षे
साभ्यतावच्छेदक विशिष्टसाध्य वैशिष्ट्या वगा हित्वस्य साध्यतावच्छेदक विशि-
ष्टसाध्यनिरूपितव्याप्तिविशिष्टहेतुतावच्छेदक विशिष्ट हेतु मत्त्वावगाहित्वस्य च
द्वयोर्व्यतिरेकः ( अभावः ) तत्त्वम् इति । इदं च सिद्धान्तसिद्धं हेतु-
दोषलक्षणम् इति मन्यन्ते नैयायिकाः । तथा च लक्षणसमन्वयः । हृदो
वह्निमान् घूमात् इत्यादौ वह्नयभावविशिष्टहृदत्वावच्छिन्नविषयक निश्चयान-
न्तरम् हृदो बह्निमान् वह्निव्याप्यघूमवांश्च इत्याकारकानुमितेः कदाचिद-
प्यनुदयेन घटाद्यनुमितय एव तादृशनिश्चयाव्यवहितोत्तरानु मितिसामान्या-
न्तर्गता भवन्ति । तासु च हृदत्वादिविशिष्टे यद्वह्नित्वाचवच्छिन्नवह्नि-
वैशिष्ट्यावगाहित्वम् वह्नित्वाद्यवच्छिन्नवहिव्याप्ति विशिष्टघूमत्वाद्यवच्छिन्न-
वैशिष्ट्यावगाहित्वं च तदुभयाभाववत्त्वमक्षतमेव इति । तत्र तादृशो-
भयाभावे तादृशनिश्चयीयविरोधिविषयिता (वह्नयभाववद्धदादिविषयिता )-
प्रयुक्तत्वमध्यक्षतम् । स्वनिष्ठप्रतिबन्धकतावच्छेदकधर्मस्य स्वानन्तरोत्पन्न-
ज्ञाननिष्ठप्रतिबध्यतावच्छेदकधर्माभावं प्रति प्रयोजकत्वम् इति नियमात्
( ग० २ हेत्वा० सामा० पृ० २०) । केचित्त यादृशपक्षकयादृश-
साध्यकयादृशहेतौ यावन्तो दोषाः संभवन्ति तावदन्यान्यत्वम् इति प्रादुः
( दीघि ० २ सामा ● पृ० १८० ) ( म० प्र० पृ० २५)
( मु० २) । तत्तद्विषयितान्यतमविषयितानिरूपकतावच्छेदकधर्मवश्वम्
इत्यर्थ: ( ग० २ हेत्वा० सामा० पृ० ३१ ) । [ ख ] अनुमिति-
तत्करणान्यतर प्रतिबन्धकज्ञान विषयो धर्मः ( हेत्वाभासत्वोपाधिः ) )
( त० कौ० २ ) ( म० प्र० २ पृ० २५) । यथा हृदो वह्निमान्
घूमात् इत्यादौ वयभाववद्धदादिरूपो दोषो बाधः हेत्वाभासः । अत्र
तद्वत्ताबुद्धौ तदभाववत्तानिश्चयः प्रतिबन्धकः इति नियमात् वयभाव-
विशिष्टस्य हृदस्य निश्चयः वह्नयभाववान् हृदः इत्याकारकः हृदो वह्निमान्
इत्यनुमितौ प्रतिबन्धको भवति सः वयभावविशिष्टो हृदः दोषः
इति विज्ञेयम् । अन्यतरेत्युक्त्या व्यभिचारविरोधसाधनाप्रसिद्धिस्वरूपा-
सिद्धिष्वनुमित्य प्रतिबन्धकत्वेपि तत्करणव्याप्तिपक्षधर्मताज्ञान प्रतिबन्धकत्व-
सवान्नाव्याप्तिः ( म० प्र० २ पृ० २५ ) ( ग० २ हेत्वा० सामा०
 

 
१०७५