This page has not been fully proofread.

१०७२
 
न्यायकोशः ।
 
स्वम् ( दीघि० २ अवय० पृ० १७६ ) इति । अन्ये तु अनुमितिहेतु-
ज्ञानकरणघूमवत्वात् इति शब्दजन्यज्ञानवृत्तिप्रतिज्ञादिजन्यज्ञानावृत्ति-
जातियोगिज्ञानजमकवाक्यत्वम् इत्याहुः (चि० अव० २ पृ० ७८-७९) ।
तथान्यत्राम्यदप्युक्तम् । प्रकृतपक्षान्वितस्वार्थबोधक पदोपस्थापितार्थान्वित-
स्वार्थबोध कन्यायावयवत्वम् । अत्र निगमनवारणाय उपस्थापित इत्यन्तं
दत्तम् ( दीषि० २ अवय० पृ० १७७ ) । स्वार्थ विशिष्टवैशिष्ठयबोध-
जनकन्यायावयवत्वं वा । तथा हि एकवाक्यतया हेत्वर्थ विशिष्टसाध्यस्य
वैशिष्यं भासते न पुनरवयवान्तरार्थ विशिष्टस्य कस्यचित् ( दीधि ० २
अवय० पृ० १७७) इति । विशिष्ट वैशिष्ट्यबोधजन कस्वार्थोपस्थितिजनक-
न्यायावयवत्वं वा । विशिष्टबोषजनकस्वार्थ विशिष्टबोधजनकम्यायावयवत्वं
वा ( दीधि ० २ अवय० पृ० १७७ ) । प्रकृतपक्षतावच्छेदका-
वच्छिन्नान्वित स्वार्थबोधजन कहेतु विभक्तिघटितत्वे सति प्रकृतहेतुतावच्छे-
दकावच्छिन्नहेतुविशिष्टहेतुत्वविषयिताबहिर्भूत विषयिताशून्यबोधजनकवा-
क्यत्वं वा । अत्र विषयितायां तादृश विषयिताबहिर्भूतत्वं च तादृश-
विषयिताशालिनिश्चयत्वसमनियतप्रतिबन्ध कतानवच्छेदकत्वम् ( ग०
अव० प्रतिज्ञाप्र० पृ० ४२ ) ( हेतुप्रन्थे० पृ०५०) । तद्यथा
एतद्भूमात् इति शब्द वृत्त्यवयवविभाजकोपाधिमत्त्वम् ( न्या० म० २
पृ० २३) । अत्र एष चासौ घूमात् इति शब्दश्व इति विग्रहः ।
एतत् अयं शब्दो वहिधूमन्यायघटकपरः । एवमुदाहरण । दिलक्षणेपीयमेव
रीतिर्बोध्या ( म० प्र० २ १० ३३ ) । [ ख ] साध्यसाधनम् (गौ०
१।१।३४ ) । साध्यतावच्छेदकाबच्छिन्नसाध्यान्वितज्ञापकस्त्रबोधकः
साध्यान्वितस्वार्थबोधको वावयवः इति फलितार्थः (गौ० १० १/१/३४ ) ।
[ग] प्राचीनास्तु पञ्चम्यन्तलाक्षणिकपदवन्यायप्रविष्टवाक्यं हेत्ववयवः
इत्याहुः ( म०प्र० २ पृ० ३३) । सोयं हेतुर्द्विविधः अन्वयिहेतुः
ब्यतिरेकिहेतुश्चेति । उदाहरणसाधर्म्यात्साभ्यसाधनं हेतुः । तथा बैधर्म्यात्
( गौ० १११ / ३४ - ३५) इति सूत्रद्वयमत्रानुसंधेयम् । परे तु
तृतीयोन्वयव्यतिरेकी इत्यपि वदन्ति ( गौ० वृ० १।१।३४ ) ।
हेतुमद् - कार्यम् । यथा हेतुहेतुमतोः इत्यादौ हेतुमत् इति शब्दस्यार्थः ।
 
.