This page has not been fully proofread.

न्यायकोशः ।
 
हिमम् – १ ( जळम् ) कारणविशेषेण घनीभूतं जलम् । यथा गङ्गा हिमवतो
जज्ञे सर्वलोकैकपाबनी ( देवीपु० अ० २) इत्यादौ हिमशब्दस्यार्थः । एवम्
करकापि ज्ञेया । तत्प्रपञ्चस्तु आपः इति शब्दव्याख्याने ( पृ० १२४ )
दृश्यः । २ शीतस्पर्शवत् ( अमरः १।३।१९ ) । यथा हिमांशुचन्द्रः इत्यादौ
हिमशब्दस्यार्थः । ३ ऋतुविशेषः । ४ चणिका ( बाचस्पत्ये राजनि० ) ।
हीनवादी– पूर्वपादं परित्यज्य योन्यमालम्बते पुनः । पदसंक्रमणाज्ज्ञेयो
हीनवादी स वै नरः ॥ ( मिताक्षरा अ० २ लो० ९ ) ।
 
हु - ( धातुः ) देवताद्रव्यसंबन्ध विशिष्टद्रव्यप्रतियोगिकसंयोगरूपो व्यापारो
जुहोत्यर्थः : ( जै० सू० वृ० अ० ४ पा० २ सू० २८ ) ।
 
हुडुकार: – जिद्दाताल्लुसंयोगा निष्पाद्यमानः पुण्यो वृषनादसदृशो नादः
( सर्व० सं० पृ० १६९ नकु० ) ।
 
हे - ( अव्य० हाडे ) १ संबोधनम् । २ आह्वानम् । ३ असूया ( मेदि ० ) ।
एवम् है हो इत्यादयः शब्दा व्याख्येयाः ( वाच० ) ।
 
-
 
हेतु: - १ ज्ञापकः । यथा पर्वते धूमेन वहिसाधने पर्वतो वह्निमान् धूमात्
इत्यादौ धूमः । अयमेव लिङ्गशब्देन अनुमानशब्देनापि च व्यवहियत
इति बोध्यम् । अत्र सूत्रम् हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम्
( वैशे० सू० ९/२१४ ) । अत्र ज्ञापकज्ञानविषयत्वरूपं प्रयोजकत्व-
मेव हेतुत्वं ज्ञानज्ञाप्यत्वरूपं हेतुमस्त्रं वा तृतीयार्थ: ( ग० व्यु० का० ३
पृ० ८७ ) । केचित परामर्शीयप्रकारत्वं हेतुत्वम् इत्यङ्गीचक्रुः । स
वायं हेतुर्द्विविधः सद्धेतु: असद्धेतुश्चेति । तत्राद्यः पर्वतादिपक्षकवड्या-
दिसाम्यकस्थले घूमादि: । द्वितीयो हेत्वाभासः दुष्टहेतुः । अत्रेदं विज्ञेयम् ।
पक्षसत्व सपक्षसत्व विपक्षासत्व अबाधितविषयत्व असाप्रतिपक्षितत्व
एतत्पञ्चरूपोपपन्न एव हेतुः सद्धेतुर्भवति । कश्चित् चतूरूपोपपन्नोपि हेतुः
सद्धेतुर्भवति । यथा इदं वाच्यं ज्ञेयत्वात् इत्यादौ ज्ञेयस्वं सद्धेतुः ।
कश्चित् त्रिरूपोपपन्नोपि हेतुः सद्धेतुर्भवति । यथा सर्व प्रमेयमभिषेयत्वात्
इत्यादौ अभिषेयत्वं सद्धेतुर्भवति ( ल० १० २५० २७) इति ।
२ [ क ] कारणम् (उत्पादकम् ) । यथा मृत् घटस्य हेतुः इत्यादौ मृत्