This page has not been fully proofread.

१०६८
 
न्यायकोशः ।
 
निपात्यादत्ते (श्रुतिः ) इत्यर्थवादे श्येनसाम्येन प्रकृतयागस्तवनात् ।
अभिचरन् शत्रुषधं कामयमानः । तथा च श्येननामको यागः शत्रुषध-
रूपेष्टसाधनवे सति कृतिसाभ्यः इत्यन्वयबोध: ( म०प्र० ख० ४
पृ० ६१) । अत्रत्यविषयस्तु अभिचारशन्दव्याख्यानावसरे संपादितो
दृश्यः । हिंसा च द्रोहेण जन्यते ( गौ० ० ४।१।३) । अत्रेदमधिकं
विज्ञेयम् । भोक्तानुमन्ता संस्कर्ता कथिविकयिहिंसकाः । उपहर्ता घातयिता
हिंसकाश्चाष्टधा मताः ॥ ( काशीख ० ) ( मनु० ५/५१ ) इति ।
तस्माद्यज्ञे वधोवैधः ( मनु० अ० ५ लो० ३९) इति या वेद-
विहिता हिंसा नियतास्मिंश्वराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो
हि निर्बभौ ॥ ( मनु० अ० ५ श्लो० ४४ ) इति च मनुनोकत्वाद्या-
गीया हिंसा अहिंसैव । अत्रायं भावः । वैधपशुहिंसा राजसत्वेन
न ब्राह्मणविषया । अपि तु काम्यविषयकत्वेन क्षत्रियादिविषयैष ।
तत्रापि तस्या नरकसाधनत्वमस्त्येव । घृतपिष्टादिरूपपशूनां तु न काम्य-
विषयत्वम् । अपि तु मोक्षफलकतत्वज्ञानसाधनयागाङ्गत्वमेव । तथा च
मनुः कुर्याद्धृतपशुं संगे कुर्यात्पिष्टपशुं तथा । न स्वेव तु वृथा हन्तुं
पशुमिच्छेत्कदाचन ॥ ( मनु० अ० ५ हो ० ३७ ) इति । अत्र
संगे इत्यस्य सम् सम्यक् गम् गतिः इति व्युत्पस्या सम्यग्ज्ञानम्
इत्यर्थः । तत्त्वज्ञानम् इति यावत् । संगे इत्यस्य आसक्तौ पशुबलिप्रसक्तौ
स्मार्तकर्मणि वा इत्यादिकं तु कुल्लूकभट्टराघवानन्दादी नामपव्याख्यानमेव ।
ननु पश्चिध्यादौ हिंसाया वैधत्वेन मनुषचनादहिंसात्वमेवेति न तसिाया
नरकप्रयोजकत्वम् इति चेा । मा हिंस्यात्सर्वा भूतानि इति शास्त्रेण
तद्धिंसाया अपि निषेधात् । न च मा हिंस्यात्सर्वा भूतानि इति सामान्य-
शास्त्रं विशेषशास्त्रेण अग्नीषोमीयं पशुमाळभेत इत्यनेन बाध्यते इति
वाघ्यम् । विरोधाभावात् । विरोधे हि बलीयसा दुर्बलं बाध्यते । न
चास्ति विरोध: । भिन्नविषयत्वात् । तथा हि मा हिंस्यात् इति निषेधेन
हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरकत्वर्थस्वमपि । अझीषोमीयं
पशुमालभेत इत्यनेन तु पशुहिंसायाः कस्वर्थत्वमुष्यते । न त्वनर्थ-
.
 
१ वधः अवधः इति पदच्छेदः ।