This page has not been fully proofread.

न्यायकोशः ।
 
सभृतस्य करादेः प्रसारणन्युनीकरणादिरेष । अत एव घृतादेः परि-
त्यागित्वविरहाद्दत्विजादेर्न यष्टृत्वम् । किंतु होतृत्वमेव इति विज्ञेयम् ।
अत्र धात्वर्थघटकपतने घृतस्याधेयत्वेनान्वयः । तथा च अत्यधिकरण-
कस्य घृतवृत्तिपतनस्यानुकूलमन्त्रकरण कक्रियावान् इत्येवं तत्र बोधो
भवति इति विज्ञेयम् ( श० प्र० श्लो० ७३ टी० १० ९५ ) ।
[घ ] बहिसंयोगावच्छिन्न पतनानुकूलमन्त्र करणकक्रिया । यथा घृतं
जुहोति इत्यत्र दुधात्वर्थः । अत्र बहिसंयोगजनकं यद्धृतस्य पत्तनम्
तदनुकूलमन्त्रकरणकक्रियाविशेषवान् इत्याकारको बोध: ( श० प्र०
लो० ७३ टी० पृ० ९५ ) । [ङ ] वैध आधारे हविषः प्रक्षेपः इति शा-
ब्दिका वदन्ति ।[ च ] देवतोद्देश्यको नौ मन्त्रपूर्वकं इविःप्रक्षेपः । यथा
ऋत्विजो जुहति इत्यादावपि ऋत्विजां होतृत्वम् । अत्र प्रक्षेपश्च अग्निसं
योगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः (का० व्या० का० ४
पृ० ५) । [ छ ] नवीनमते तु विशिष्टदेशावच्छिन्न प्रक्षेपोपहित त्यागो
हवनम् ( दायभाग ० ) ( का० व्या० का० ४ पृ० ५) इति ज्ञेयम् ।
इविश्वम्यागकर्मत्वम् यथा मप्रकरणकइविस्त्यागः इत्यादौ ग्रन्थे
हविः शब्दस्यार्थः ( त० प्र० ख० ४ पृ० १२३ ) । हविर्द्रव्यं तु
आज्यपशुपुरोडाशादि यथाविधि विज्ञेयम् ।
 
-
 
हानम् – १ [ क ] निवृत्तिप्रयोजकमनिष्टसाधनताज्ञानम् । स्वानिष्टसाधन-
ताप्रकारकं ज्ञानम् इत्यर्थः (प० च० ) । [ ख ] दुःखसाधनत्वज्ञानम् ।
यथा सर्पो मे दुःखसाधनम् इति ज्ञानम् ( सि० च० १ पृ० २१ ) ।
२ केचित्तुं ज्ञानम् । तच्च कचित् तत्वज्ञानम् इत्याहु: ( न्या० वा०
पृ० ४ ) । ३ काव्यशास्तु परित्यागः ( इच्छाविशेषः ) । यथा हिमहाम-
कृता न कृता कचन (भट्टि: १०।५) इत्यादौ हानशब्दार्थ इत्याहुः ।
हास - १ [क] प्रीव्या मुखकमलादेर्विकासः । यथा इसति इत्यादी इस्
धात्वर्थः । [ख] कण्ठोष्ठपुटविस्फर्जनपुरःसरं अहहह इत्यहासः ( सर्व०
सं० पृ० १६९ मकु० ) इति पाचुपता आहुः । [ग] दोषदर्शमपूर्वको
हासः । यथा ततो जहासातिया मीमं भैरवनादिनी ( सप्तश० ७/१९)
 
-