2023-02-20 00:57:49 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
१०६५
हन्ति कृशोदार इत्यादौ हन्तेरर्थः इत्याहुः । ३ गुणकास्तु गुणनम् ।
यथा त्रिभिर्हतम् सप्तभिर्हतम् इत्यादौ हनधास्वर्थः इत्याहुः ।
हन्त – ( अव्ययम् ) १ हर्षः । २ अनुकम्पा । ३ विषादः । ४ वाक्या-
रम्भः । ५ आर्तिः । ६ वादः । ७ संभ्रमः । ८ खेदः ( शब्दच ० )
( मेदि० ) । ९ अन्तःकल्पनम् ( अजयपाल: ) ( वाच० ) ।
हरिवासरः - द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः ( पु० वि०
पृ० २१२ ) ।
हर्षः-१ [ क ] चित्तोत्साहः । स च क्वचित् मिथ्याकारणं भवति ।
यथा हृष्टो दर्पति दृप्तो घर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः
( आपस्त० ध० सू० ) इत्यादौ हृषधात्वर्थः । [ख] इष्टाधिगमजन्य
आनन्दः । [ ग ] अभिप्रेत विषयकप्रार्थनाप्राप्तौ सुखानुभवो हर्ष: ( म्या०
वा० ) । २ पौराणिकास्तु कन्दर्पपिता इत्याहुः ( वामनपु० अ० ५ ) ।
३ आधुनिकास्तु कलियुगीयो राजविशेषः । यथा हर्षचरितम् इत्यादौ
हर्षशब्दार्थः इत्यादुः ।
हवनम् - [क] प्राचीनमते अग्निसंयोगावच्छिन्न क्रियानुकूलव्यापारः । यथां
संस्कृतेनौ घृतं जुहोति इत्यत्र जुहोत्यर्थः (ग० व्यु० का० २ पृ० ४२ ) ।
[ख] अग्निसंयोगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः ( दि०
गु० धर्मनि० पृ० २३४ ) । यथा घृतं जुहोति इत्यादौ दुधा-
त्वर्थः । अत्र घृतवृत्त्यग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारानुकूल कृति-
मान् इत्यन्वयबोध: ( का० व्या० का० ४ पृ० ५ ) । [ग]
बहषधिकरणकपतनावच्छिन्न मन्त्रकरणकक्रिया । यथा वृतं जुहोति इत्यादौ
दुधातोरर्थः । वहौ जुहोति इत्यत्र सप्तम्यन्तस्यार्थो न धात्वर्थनिविष्टे
पतनेन्वेति । वह्निवृत्तित्व विशिष्टपतने तद्वृत्तिस्त्वस्यान्वये निराकाङ्क्षतापत्तेः ।
परंतु तदवच्छिन्नक्रियायामेवान्वेति । प्रतिमादौ वृतादिस्नपनं मन्त्र-
करणकमपि नाउयधिकरणकम् । वही घृतस्य प्रक्षेपमात्रमध्यधिकरणक-
सरपतनानुकूलमपि न मङ्गकरणकम् । अतस्तदुभयं न होमः । प्राजापत्येपि
होमे मामस एव मन्नः करणम् इति स होमः । तादृशी क्रिया यात्र
१३४ न्या० को●