2023-02-20 00:57:48 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०६३
इत्याकारको बोधः ( श० प्र० लो० ९४ टी० १० १२६) ।
२ पौराणिकास्तु अग्निभार्या ( अमर: २ ब्रह्मवै० २१ ) । यथा स्वाहयेब
हविर्भुजाम् ( रघु० १/५६ ) इत्यादौ स्वाहां तु दक्षिणे पार्श्वे ( वै-
श्वदे० ) इत्यादौ च स्वाहाशब्दस्यार्थ इत्याहुः । अत्रोक्तम् प्रकृतेः कलया
चैव सर्वशक्तिस्वरूपिणी । बभूव दाहिका शक्तिरनेः स्वाहा स्वकामिनी ॥
ग्रीष्ममध्याह्नमार्तण्ड प्रभाच्छादनकारिणी । त्वमग्नेर्दाहिका शक्तिर्भव पत्नी
च सुन्दरी ॥ ( ब्रह्मवै० प्र० अ० ३७ ) इत्यादि । ३ कर्मज्ञास्तु मातृका-
विशेष: ः । यथा नमः स्वाहायै स्वधायै नित्यमेव नमो नमः (पितृगाथा)
इत्यादौ स्वाहाशब्दस्यार्थ इत्याहुः । ४ ताधिकास्तु दुर्गाशक्तिविशेषः ।
यथा दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते ( दुर्गापूजामन्त्रः )
इत्यादौ स्वाहाशब्दस्यार्थ इत्याहुः ।
▬▬▬
-
स्वित् – ( अव्ययम् ) १ प्रश्नः । २ वितर्कः । यथा तस्मिन् द्रव्यं
गुणः कर्म वा इति संदेह: विशेषस्योभयथा दृष्टत्वात् । किं द्रव्यस्य
सतो गुणकर्मभ्यो विशेष: आहोस्खिद्गुणस्य सतः इति ( वात्स्या ०
१ । १ । २३ ) इत्यादौ ग्रन्थे स्विदूशब्दस्यार्थः । ३ पादपूरणार्थम् ।
स्वीकारः – ममेदम् इति ज्ञानात्मकः संप्रदानव्यापारः ( वीरमित्रो० दाय०
पृ० ५४३) । शिष्टं तु प्रतिग्रहशब्दव्याख्याने ( पृ० ५२२ ) दृश्यम् ।
खेदः - १ पाकविशेष: (सेको दाहः ) । २ गात्रादितो जलादेर्निष्यन्द-
नम् ( घर्मः ) । यथा अयोनिजपार्थिवशरीरेषु यूकालिक्षादीनां शरीरं
स्वेदजम् इत्यादौ प्रन्धे स्वेदशब्दस्यार्थः । स च स्वेदः एकाङ्क्षसर्वाङ्गगतः
स्निग्धो रूक्षस्तथैव च इति द्विविधः । स चाग्निगुणजन्यस्त्रयोदशविधः
व्यायामोष्ण सदनादिजन्यो दशविधश्च इत्यादि सुश्रुतग्रन्थे सविस्तरं
प्रतिपादितम् तत् तत्र दृश्यम् । स्वेदजन्यजन्तूनाह। संस्वेदजविकारांव
यथा येभ्यो भवन्ति च । मानुषस्वेदमलजा मक्षिकाद्या भवन्ति च ॥
नवमेघप्रसिक्तायां पिपीलिकगदादयः । संस्तेंदजास्तु विज्ञेया वृक्षगोपशु-
जन्तवः ॥ समिद्भ्यो माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः । जायन्ते क्कमयो
विप्राः काष्ठेभ्यो घुणकादयः ॥ तथा शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति