This page has not been fully proofread.

१०६२
 
न्यायकोशः ।
 
रूपम् । अत्र भाष्यम् । अनुमानम् द्विविधम् दृष्टं सामान्यतोदृष्टं च ।
तत्र दृष्टम् प्रसिद्धसाध्ययोरत्यन्तजात्य भेदेनुमानम् । यथा गव्येब साना-
मात्रमुपलभ्य देशान्तरे सास्नामात्रदर्शनाद्गौरिति प्रतिपत्तिर्भवति । प्रसिद्ध
साध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्म सामान्यानुवृत्तितोनुमानं सामान्य-
तोदृष्टम् । यथा कर्षकवणिप्राजपुत्राणां प्रवृत्तेः साफल्यमुपलम्य वर्णा-
श्रमिणामपि दृष्टं प्रयोजनमनुद्दिश्य प्रवर्तमानानां फलानुमानमिति । तत्र
लिङ्गदर्शनं प्रमाणम् । प्रमितिरग्निज्ञानम् । अथ वाग्निज्ञानमेव प्रमा-
णम् । प्रमितिरभौ गुणदोषमाध्यस्थ्यदर्शनम् । तत्स्वनिश्चितार्थमनुमानम्
( प्रशस्त ० २ गु० पृ० ४५ ) इति । स्वार्थानुमानस्य प्रयोजनं तु स्वस्यै-
वानुमिति: ( त० सं० ) । तथा हि कश्चित्पुरुषः स्वयमेव भूयोदर्शनेन
यत्र घूमस्तत्राग्निः इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते
चामौ संदिहानः पर्वते वर्तिनीमविच्छिन्नमूलामवंलिहां धूमलेखां पश्यन्
घूमदर्शनादुद्बुद्धसंस्कारो व्याप्तिं स्मरति यत्र घूमस्तत्राग्निः इति । तदन-
न्तरं वह्निव्याप्यघूमवानयं पर्वतः इति ज्ञानमुत्पद्यते । अयमेव लिङ्ग-
परामर्श: इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति स्वस्य ज्ञानमनुमिति-
रुत्पद्यते । तदेतत्स्वार्थानुमानम् ( त० सं० ) ( त० मा० पृ० ११) ।
२ स्वप्रयोजनम् । यथा मनीषिणः स्वार्थमुद्दिश्य प्रयतन्ते इत्यादौ स्वार्थ -
शब्दस्यार्थः । ३ स्वामिधेयः । यथा स्वार्थकः स्वार्थबोधकृत् इत्यादौ
स्वार्थशब्दस्यार्थः ( शब्द० च० ) । ४ व्यवहारशास्त्रज्ञास्तु स्वस्वत्वकं
धनं स्वार्थम् इत्यादुः ।
 

 
स्वाहा -१ [ क ] अग्निप्रक्षेपोपहितदेवोद्देश्यकत्यागः । यथा इन्द्राय
स्वाहा इत्यादौ स्वाहाशब्दस्यार्थ: ( ग० व्यु० का० ४ पृ० १००)
( अमरः ३ । ४ ।८ ) । वेदादेशितोच्चारण कर्तृत्वोपलक्षितपुरुषीयव्यागः
इति फलितोर्थः । तेन तान्त्रिकपूजायामर्थ्याचमनीयादिदाने स्वाहावधा-
शब्दप्रयोग उपपद्यते ( ग० व्यु० का० ४ पृ० १०१ ) । [ख]
स्वत्वकरणको हविस्त्यागः । यथा इदमनये स्वाहा इत्यादी स्वाहा-
शब्दस्यार्थः । अत्र देवोद्देश्यकस्य स्वाहापदकरणकस्य हविस्त्यागस्य कर्मेदम्