This page has not been fully proofread.

१०६०
 
न्यायकोशः ।
 
मदीयेच्छा इति बोध: ( ग० व्यु० का० ४ ) । अत्र आशीच परहित-
विषयकेच्छा न तु स्वहितविषयकेच्छा विज्ञेया । अत्र व्याकरणम् अस्ति
( सु असू क्तिच् ) इति विभक्तिप्रतिरूपकमव्ययम् । स्वस्तिशब्दयोगे
क्षेमादिसंबन्धिनि चतुर्थी भवति । २ कल्याणम् ( कुशलम् ) । यथा
स्वस्त्यस्तु मह्यम् इत्यादौ स्वस्तिशब्दस्यार्थः ( ग० न्यु० का० ४ ) ।
यथा वा स्वस्थ्यस्तु प्रजाम्यः इत्यादौ स्वस्तिशब्दस्यार्थः । अत्राद्ये चतुर्थ्यर्थः
संबन्धः । तस्य च कल्याणेन्वयः ( ग० व्यु० का० ४ ) । शाब्दबोधस्तु
पूर्ववज्ज्ञेयः । स्वस्त्यस्तु प्रजाभ्य इत्यत्र प्रजानिष्ठं कुशलम् इत्यर्थः । स्वस्ति-
शब्दस्य कुशलवाचित्वात् । कुशलस्याशंसास्थले तु स्वस्त्यस्तु प्रजाभ्यः
इतिवत् स्वस्त्यस्तु प्रजानाम् इत्यपि प्रमाणम् । आशा स्यैर्धनकुशलायुष्यार्थे
योगे चतुर्थी वा इति भागुरिस्मृतेः इत्यपि वदन्ति ( श० प्र०
लो० ९४ टी० पृ० १२६ ) । ३ पुण्यम् । ४ स्वीकार सूचनम् ।
स्वहस्तितत्वम् – स्वीकृतत्वम् ( राम० ) । यथा अनुभवस्य त्वया स्वहस्ति-
तत्वात् ( दि० ) इत्यादौ ग्रन्ये स्वहस्तितत्वशब्दस्यार्थः ।
स्वागतम् – १ शोभनमागमनम् ( कुमा० टी० २११८ ) । यथा स्वागतं
स्वानधीकारान् ( कुमार० स० २ को० १८) इत्यादौ स्वागतशब्द-
स्यार्थः : । २ कुशलम् । ३ कुशलप्रश्नः ( हारा० ) । यथा स्वागतं वो
महाभागाः वयं किं करवाम ते ( भाग० ९) इत्यादौ स्वागतशब्द-
स्यार्थः । ४ देवतापूजकास्तु षोडशोपचारमध्ये द्वितीयोपचारः । यथा
आसनं स्वागतं पाद्यम् इत्यादौ स्वागतशब्दस्यार्थः इत्याहुः ।
स्वातत्र्यम् – स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता । कर्तुः स्वातत्र्यमेतद्धि
न कर्माद्यनपेक्षता (सर्व० सं० पृ० १७७ शै० )।
 
-
 
-
 
स्वादः – १ प्रीतिः । २ प्रीणनम् । ३ रसिकास्तु रसानुभवः । यथा
रसास्वादेन तरला ये माद्यन्ति विपश्चितः ( प्रतापरु० ) इत्यादौ स्वाद-
शब्दस्यार्थः इत्याहुः । ४ लेहनम् इति काव्यज्ञा आहुः ।
स्वाध्यायः- -१ अध्ययनम् ( अमरः २।७।४७ ) । यथा स्वाभ्यायो जप
इत्युक्तो वेदाध्ययनकर्मणि ( स्मृतिः ) इत्यादी स्वाभ्यायशब्दस्यार्थः ।