This page has not been fully proofread.

१०५८
 
न्यायकोशः ।
 
इत्युच्यते ( सि० च० २ १० २८) । स्वरूपासिद्धश्च शुद्धासिद्धभागां-
सिद्धविशेषणासिद्धविशेष्यासिद्धासमर्थविशेषणासमर्थविशेष्यभेदेन
 

 
विध: ( त०] भा० पू० ४५ ) ( त० सं० २ ) ( सि० च० २) ।
स्वरूपासिद्धश्चायमसिद्धप्रभेदः । लक्षणं तु वक्ष्यमाणा स्वरूपासिद्धिरेष ।
सा च हेतुनिष्ठपक्षावृत्तित्वादिः स्वरूपासिद्धिशब्दे दृश्या ( सि० च० ) ।
स्वरूपासिद्धश्चायं कचित् संदेहसिषाधयिषयोरभावात् सिद्धसाधने
अन्तर्भवति (३० उ० ३/१२/१५५० १५६ ) । [ख ] यो
हेतुः पक्षे न वर्तते स स्वरूपासिद्धः । यथा तप्तायः पिण्डो वह्निमान्
घूमात् इत्यादौ धूमो हेतुः स्वरूपासिद्धः । यथा वा शशादिरश्वो
विषाणित्वात् इत्यादौ विषाणित्वं हेतुः स्वरूपासिद्धः ( प्र० प्र० ) । अत्र
सूत्रम् यस्माद्विषाणी तस्मादश्वः (वै० ३ । १ । १६ ) इति । [ ग ]
पक्षनिष्ठाभावप्रतियोगी हेतुः । यथा हृदो द्रव्यं धूमात् इत्यादौ घूमः
स्वरूपासिद्धः (त० कौ० २) । अत्र पक्षे हृदे वर्तमानः धूमस्याभावः
तस्य प्रतियोगी धूमो भवति इति हृदो द्रव्यं धूमात् इत्यादौ धूमो हेतुः
स्वरूपासिद्धः । स्वरूपासिद्धत्वज्ञानं परामर्शप्रतिबन्धकम् । हृदे घूमो
नास्ति इति ज्ञाने सति द्रव्यस्वव्याप्यधूमवान् हृदः इति परामशसिंभवात् ।
एतस्य परामर्शस्य हृदे धूमसंबन्धावगाहित्वात् (ह० कौ० २) इति ।
स्वरूपासिद्धिः - ( हेतुदोषः ) पक्षे व्याप्यत्वाभिमतस्याभावः । यथा घटः
पृथिवी पटत्वात् इत्यत्र घटरूपपक्षे हेत्वभावः ( न्या० म० २) ।
यथा वा हृदो द्रव्यं घूमात् इत्यादौ हृदनिष्ठो धूमाभावः स्वरूपासिद्धिः
( मु० २ ) ( गौ० वृ० ११२१८ ) ( वै० वि० ३११/१५)
( न्या० बो० ) ( न्या० म० २ पृ० २१ ) । स्वरूपासिद्धिचेयमसिद्धि-
प्रभेदः । भागासिद्धिरत्रैवान्तर्भवति ( त० मा० ) । अत्र च हेत्वभावव-
स्पक्षः हेतुमदन्यः पक्षः पक्षावृत्तिर्हेतुः पक्षे हेत्वभावः पक्षनिष्ठं हेत्वमाव-
वत्त्वम् पक्षनिष्ठं हेतुमदन्यत्वम् हेतुनिष्ठं पक्षावृत्तित्वम् हेतुनिष्ठं पक्ष-
वृत्तित्वषदन्यत्वम् हेतुमन्निष्ठं पक्षान्यत्वादिकम् हेतुनिष्ठं पक्षनिष्ठाभाव-
प्रतियोगित्वम् विशिष्टहेतौ पक्षादेर्विशेष्याभाववत्वादिकम् पञ्चावेर्हेत्व-
समानाधिकरणधर्मबत्वम् इत्यादयः स्वरूपासिद्धिव्यक्तयो बाधबवूयाः ।