2023-02-20 00:57:47 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०५७
स्वरूपयोग्यत्वम् –( जनकत्वादिकम् ) तदवच्छेदकधर्मवत्त्वम् । यथा अर-
ण्यस्थस्यापि दण्डस्य घटं प्रति जनकत्वं स्वरूपयोग्यत्वम् ( सि० च० १
पृ० २० ) । अत्र च अरण्यस्थदण्डस्यापि घटकारणतायामवच्छेदकी-
भूतदण्डत्व वत्त्वात्स्वरूपयोग्यत्वरूपं जनकत्वं युज्यत इति बोध्यम् । यथा
वा परमाणुवृत्तिरूपादेश्चक्षुरविषयत्वेपि चक्षुर्विषयत्वस्वरूपयोग्यत्वम् ।
तदर्थस्तु चक्षुर्जन्यज्ञान विषयत्वावच्छेद की भूतधर्मवत्वम् इति । स च धर्मोत्र
रूपत्वम् । तच्च परमाणुवृत्तावपि रूपादौ वर्तत इति सर्व सुस्थम् ।
स्वरूपलक्षणम् – स्वरूपान्तर्गतत्वे सति व्यावर्तकम् ( सर्व० सं० go
४६६ शां० ) ।
स्वरूपसंबन्धः-संबन्धान्तरेण विशिष्टप्रतीतिजननायोग्यत्वम् ( चि० १) ।
यथा भूतले घटो नास्ति इत्यादौ घटाभावादेर्भूतलेन संबन्धः । स
द्विविधः केवलस्वरूपः विशेषणता चेति । तत्राद्यो भावाभावान्यतर-
प्रतियोगिकः । यथा आधेयत्वप्रतियोगित्वादीनां संबन्ध: । द्वितीय-
स्त्रिविधः दैशिकविशेषणता दिक्कृतविशेषणता कालिक विशेषणता चेति ।
तत्राद्यवाभावमात्रप्रतियोगिकः । यथा भूतलादिना घटाभावादीनां
संबन्ध: । द्वितीय तृतीयौ तु दिक्कालानुयोगिकौ जन्यमात्रप्रतियोगिकौ च ।
यथा गन्धघटादीनां संबन्धौ दिक्कालाभ्याम् इति । इमावेव सर्वाधारता
प्रयोजकसंबन्धौ इति जेगीयेते ( त० दी० १ कालनि० पृ० १०)।
अत्राहुः । स्वरूपसंबन्ध इत्यस्य अनुयोगिप्रतियोग्यन्यतरस्वरूपः संबन्ध
विशेष: इत्यर्थः । यद्वा स्वरूपसंबन्धो धर्मिद्वयात्मकः । अथ वा षटू-
पदार्थातिरिक्तः भावरूपः पदार्थविशेषः स्वरूपसंबन्धः इति ।
खरूपासिद्धः - ( हेत्वाभास ) [ क ] यो हेतुराश्रये नावगम्यते सः ।
यथा सामान्यमनित्यं कृतकत्वात् इत्यादौ कृतकत्वं स्वरूपासिद्धम् । अत्र
कृतकस्वं हेतुराश्रये सामान्ये नास्ति ( त ० भा० हे० पृ० ४५ ) ।
यथा वा शब्दो गुणश्चाक्षुषत्वात् इत्यादौ चाक्षुषत्वं स्वरूपासिद्धम् । अत्र
चाक्षुषत्वं शब्दे पक्षे नास्ति शब्दस्य श्रावणत्वात् इति चाक्षुषत्वं स्वरूपा-
सिद्धं भवति इति ज्ञेयम् ( त० सं० ) । अयमेव हेतु: शुद्धासिद्धः
१३३ न्या० को०