2023-02-20 00:57:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
०
संयोग विशेषसंस्कारोभयजन्यम् तथा स्वप्नान्तिकाख्यं ज्ञाममपि ( ३०
वि० ९१२१८) इति । स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथा-
प्यतीतज्ञामप्रबन्धस्य प्रत्यवेक्षणात्स्मृतिरेवेति ( प्रशस्त ० गु० पू० २५ ) ।
२ केचित्त स्वप्नमध्ये प्रमाभूतं यज्ज्ञानम् तत् स्वप्नान्तिकम् । यथा
शय्यायां शयानोस्मि इत्यादि इत्याहुः (वै० उ० ९२२१८ ) ।
स्वभावः – हेत्वन्तरानपेक्षो वस्तुधर्मविशेषः । यथा स्वभावो दुरतिक्रमः
अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मा-
त्स्वभावात्तद्व्यवस्थितिः ॥ ( सर्व० पृ० १३ चार्वा० ) इत्यादौ स्वभाव-
शब्दस्यार्थः । तत्र प्राणिस्वभावस्तु द्विविधः निसर्गः स्वरूपं चेति ।
तदुक्तम् बहिर्हेत्वनपेक्षी तु स्वभावोथ प्रकीर्तितः । निसर्गश्च स्वभावश्च
इसेष भवति द्विषा । निसर्गः सुदृढाम्यासजन्यः संस्कार उच्यते ।
अजन्यस्तु स्वतः सिद्धः स्वरूपो भाव उच्यते ॥ ( उज्ज्वलदत्त ० ) इति ।
स्वम् – १ [ क ] समभिव्याहृतपदोपस्थाप्य पदार्थ (ग० शक्ति०
पृ० ११६-११७ ) । निष्कृष्टार्थस्तु साक्षात्परंपरया वा यः स्वार्थस्य
विशेष्य: यक्ष स्वसमभिव्याहृतक्रियाकारकपदार्थः तदुभयम् । यथा चैत्रः
स्वपुत्रं पश्यति इत्यादौ स्वपदार्थः ( ग० शक्ति० पृ० १२२) ।
[ख] तद्घटितषाक्यघटकक्रियान्वितः समभिव्याहृतपदोपस्थाप्यः । यथा
चैत्रः स्वपुत्रं पश्यति इत्यादौ स्वपदार्थश्चैत्रः । तद्घटितेयत्र तच्छन्देन
स्वपदं ग्राह्यम् । क्रियान्वित इत्यन्तेन चैत्रस्य भ्राता स्वपुत्रं पश्यति
इत्यादौ स्वशब्देन न चैत्रप्रतीतिः । २ व्यवहारज्ञास्तु स्वकीयम् धनादि
इत्याहुः । ३ आत्मा । ४ ज्ञातिः ।
-
-
स्वयमुक्तिः – स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स
शास्त्रेषु न स साक्षित्वमर्हति ॥ ( मिताक्षरा अ० २ श्लो० ६९ ) ।
स्वरः – १ उदात्तानुदात्तस्वरितरूपो वर्णोच्चारणयत्नविशेषः । २ व्यञ्जन-
वर्णभिन्ना अकारादयो वर्णाः इति शाब्दिका आहुः । एषामचामु-
दातादिस्वरवत्त्वात् स्वरपदाभिधेयता । अत्र शिक्षा उदात्तश्चानुदाचश्च
स्वरितश्च स्वराजयः । इस्वो दीर्घः श्रुत इति कालतो नियमा अचि ॥