This page has not been fully proofread.

१०५४
 
न्यायकोशः ।
 
यदा कर्मसु काम्येषु स्त्रिय ९ स्वप्नेभिपश्यति । समृद्धिं तत्र जानीयासस्मि-
न्स्वप्ननिदर्शने (छान्दो० ५/२/९ ) इति । तथा पुरुषं कृष्णं कृष्णदन्तं
पश्यति स एनं हन्ति इति । आचक्षते च स्वमाभ्यायविदः कुञ्जरा-
रोहणादीनि स्वमे धन्यानि खरयानादीन्यधन्यानि ( शारी• मा० ३।२१४ )
इति । अत्र शुभाशुभसूचकत्वं स्वप्नमेदस्य मत्स्यपुराणादौ (अ० २४२ )
सविस्तरमुक्तम् तत्तत्र द्रष्टव्यम् । द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्यास्तु स्वप्न-
सृष्टपदार्थानां सत्यत्वमेव । तथा हि स्वप्नेपि गजादिदर्शनं यथार्थमेव ।
मानसवासनाजन्यत्वाद्गजादीनाम् । तेषु यद्वाह्यत्वज्ञानं तद्विपर्यय एव
इति प्राहुः ( प्र०प० पृ० ५ ) । अयं भावः । ईश्वरोनादिमनोगतांश्च
संस्कारानुपादानीकृत्य स्वेच्छामात्रेण प्रदर्शयति पदार्थान् । अत्र श्रुतिः य
एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति विज्ञेया । न तत्र
रथा न रथयोगाः ( बृह० उ० ६।३।१० ) इत्यादौ तु ईश्वरं विना इति
पूरयित्वा अन्वयो योज्य: ( मध्वभाष्य ० ३।२।१- ३ ) इति । पुराणे
चोक्तम् मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स
स्वप्न इति गीयते ॥ यदन्यथात्त्रजाग्रत्वं सा भ्रान्तिस्तत्र तत्कृता ।
अनमिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥ ( मध्यभाष्ये ब्रह्माण्डपु०
३ । २ । ३ ) इति । अत्र गजादिरूपकार्यस्योपादानं वासना ईश्वरः कर्ता
अदृष्टादिकं निमित्तम् इति द्रष्टव्यम् ( प्र०प० टी० वेदेश० पृ० १४) ।
 
स्वप्नान्तिकम् – ( बुद्धिप्रभेदः अविद्या ) १ तत्कालोत्पन्नानुभवज नित-
संस्कारजन्यं ज्ञानम् । तदर्थस्तु स्वप्नान्तिकं स्वप्नस्यान्ते भषम् । स्वप्ना-
नुभवजसंस्कारजम् इति यावत् । इदं ज्ञानं स्वप्नावस्थाजातानुभवजनित-
संस्कारेण जायते । किंतु स्मृत्यात्मकम् न मानसम् इति विशेषः ( ३०
वि० ९२२१८) । तथा च स्वप्नान्तिकस्वप्नज्ञानयोरेताषान् विशेषः ।
स्वप्रज्ञानं पूर्वानुमबजनिता संस्कारादुत्पद्यते । स्वप्नान्तिकं तु तत्कालो-
त्पन्नानुभवजनितसंस्कारादेव । तदुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञान-
प्रत्यवेक्षणात् स्मृतिरेव (३० उ० ९१२१८) इति । अत्र सूत्रम्
स्वप्नान्तिकम् (बै० ९१२१८) इति । तदर्थव स्वमज्ञानं यथास्ममन:-