This page has not been fully proofread.

न्यायकोशः ।
 
तस्यामवस्थायां प्रबन्धेन प्राणापानसंतानप्रवृत्तावात्ममनः
 
संस्काराञ्चेन्द्रियद्वारेणेवा सत्स्वपि विषयेषु
 
स्खापाख्यात्
ज्ञानमुत्पद्यते ( प्रशस्त
 
१०५३
 
संयोग विशेषा-
प्रत्यक्षाकारं
 
1
 
गु० पृ० २५) । अत्र च मानसं ज्ञानं
ज्ञानलक्षणरूपालौकिकसंनिकर्षाद्भवति स्मरणं च संस्कारात् इति विशेषः
(बै० वि० ९ ।२।७) । तच्च स्वमज्ञानं त्रिविधम् (१) किंचित्
संस्कारपाटवात् (२) किंचित् धातूनां बातपित्तश्लेष्मणां दोषात्
(३) किंचित् धर्माधर्मरूपादृष्टविशेषाञ्चोत्पद्यते । तत्राद्यं ( १ )
यथा कामी क्रुद्धो वा यदा यमर्थमादृतश्चिन्तयन्स्वपिति तदा सैव
चिन्तासंततिः प्रत्यक्षाकारा संजायते ( प्रशस्त ० २ पृ० २५) ।
यथा वा पुराणादिश्रवण जनित संस्कारवशाज्जायते कर्णार्जुनीयं युद्धमिदम्
इत्याकारम् । द्वितीयं ( २ ) यथा वातदोषादाकाशगमनवसुन्धरा-
पर्यटनव्याघ्रादिभयपलायनादीनि पश्यति । पित्तोपचयदोषमहिना वह्नि-
प्रवेशवह्निज्वालालिङ्गनकन कपर्वत विद्युल्लता विस्फुरणदिग्दाहादिकं पश्यति ।
श्लेष्मदोषप्राबल्यात्तु समुद्रसंतरणनदीमज्जनधारासारवर्षण रजत पर्वतादि
पश्यति । तृतीयं ( ३ ) यथा तज्जन्मानुभूतेषु जन्मान्तरानुभूतेषु वा
सिद्धोपप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते तत्र शुभावेदकं धर्मात् गजारो-
हणपर्वतारोहणच्छत्रलाभपायसभक्षणराजसंदर्शनादिविषयकम् । अध-
मत्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहणपकमज्जनस्व विवाहदर्शनादिविषयकं
स्वज्ञानमुत्पद्यते ( वै० उ० ९।२।७ ) इति । सांख्या मायावादिवेदा-
न्तिनश्च संस्कारमात्रजन्यः स्वप्नावस्थाशब्दवाच्यो बुद्धेर्विषयाकारः परि-
णामः स्वप्नः इत्याहुः । स्वप्नस्थपदार्थविषये सत्यत्वमिथ्यात्वाभ्यां विप्रति-
पत्तिः । तत्र स्खमदृष्टपदार्थस्य मिथ्यात्वम् इति मायावादिवेदान्तिनोनीचक्रुः ।
श्रुतिश्च स यत्र प्रखपति इत्युपक्रम्य न तत्र रथा न रथयोगा न पन्थानो
भवन्ति अथ रथान्रथयोगान् पथः सृजते ( बृह० उप० ६ । ३१९ - १०)
इति । सूत्रं च मायामात्रं तु कार्येनानभिव्यक्त
स्वरूपत्वात् ( ब्रह्मसू
० ३ पा० २ सु० ३) इति । तथा सूचकश्च हि श्रुतेराचक्षते च
तद्विदः ( ब्रह्मसू० अ० ३ पा० २ सू० ४ ) इति । सूचकच
हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते