This page has not been fully proofread.

१०५२
 
न्यायकोशः ।
 
तत् इति स्थाने इदम् इत्युदयात् । सर्व ज्ञानं निराकारमेव न तु ज्ञानं
तत्तद्विषयाकारम् । साकारज्ञानवादनिराकरणात् (त० भा० प्रमेय नि०
पृ० ४० ) । तथा स्वप्नः (वै० ९ । २।७ ) इति सूत्रे चेत्थमुक्तम् । स्मृतौ
यथा संस्कारः कारणं तथा स्वप्नसंज्ञकमानसज्ञानेपि इत्याह तथा इति ।
तथा आत्ममनः संयोगविशेषात् पूर्वानुभवजनितसंस्काराच स्वप्नो मान-
सज्ञानविशेषो भवतीति । अत्र संयोगे विशेषो मेभ्यामनः संयोगात्मकदोष-
विशिष्टत्वम् । अत एव तदानीं भ्रम एव भवति । पूर्वानुभवञ्चैहिको
जन्मान्तरीयो वा (वै० वि० ९।२।७ पृ० ४०९ ) । अत्रेदं बोध्यम् ।
स्वप्नज्ञानं पुरीतद्वहिर्देशयोः संधौ मनसि स्थिते अदृष्टविशेषेण चिन्ता-
विशेषेण धातुदोषेण वा जन्यते । तच्च मानसविपर्ययेन्तर्भवति ( सि०
च० गु० पृ० ३४ ) ( त० दी० गु० पृ० ३८ ) । स्वप्नज्ञानमनुभूत-
पदार्थस्मरणसंस्कारकफपित्तादिधातुशुभाशुभादृष्टैर्जन्यते । तथ बाधि-
तार्थविषयकम् ( नील० गु० पृ० ३८) इत्यन्यत्रोक्तम् । तत्र स्वप्नज्ञाने
असमवायिकारणं स्वप्नः । धात्वदृष्टादिकं निमित्तकारणम् । आत्मा सम-
बायिकारणम् इति ज्ञेयम् । स्वप्नस्य स्मृतिरूपत्वमुक्तं प्रशस्तदेवाचार्यैः
अतीतज्ञानप्रत्यवेक्षणात्स्मृतिरेव इति । उक्तं च वृत्तिकारैः । अनुभूत-
वस्तुरफुरणार्थतया न स्मरणादर्थान्तरं स्वमज्ञानम् ( वै० उ०
९/२१८ पृ० ४११) इति । तेन यत्तु नीलकण्ठ्यां स्मृतिरूपत्वं स्वप्न-
ज्ञानस्य खण्डितम् तद्भाष्यादितात्पर्या नाकलनादेव इति मम भाति ।[ख]
निद्रादुष्टान्तःकरणजं ज्ञानम् । [ग] मानसविपर्ययः ( त० दी० गु०
पृ० ३८) (सि० च० ) । [घ ] मिथ्याप्रत्ययप्रवाहः ( न्या० ली०
गु० पृ० ३१ ) । [ ङ ] सिद्धाभिभूतज्ञानम् ( न्या० सी० गु०
पृ० ५९ )। [च ] उपरतेन्द्रियप्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेण
यदनुभवनं मानसं तत् । स्वभज्ञान मित्थमुत्पद्यते । यदा बुद्धिपूर्वादात्मनः-
शरीरारब्धव्यापारादहनि खिन्नानां प्राणिनां निशि विश्रान्त्यर्थमाहार-
परिणामार्थ वा अदृष्टकारितप्रयत्नापेक्षात्मान्तःकरणसंबन्धजन्यकिया-
प्रबन्धादतीतमन्तर्हृदये निरिन्द्रियात्मप्रदेशे निश्चलं मनस्तिष्ठति सदा
प्रलीनमनस्क इव्याख्यायते । प्रलीने च तस्मिनु परतेन्द्रियमामो भवति ।
 
O