2023-02-20 00:57:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०५१
परधर्मो भयावहः ॥ ( गीता अ० ३ को० ३५) इत्यादौ स्वधर्म-
शब्दस्यार्थ इत्याहुः । तदुक्तम् यो यस्य विहितो धर्मः स तजातेः
प्रकीर्तितः । तस्मात्स्वधर्म कुर्याञ्च द्विजो नित्यमनापदि ॥ ( वाचस्पत्ये
नरसिंहपुराणम् ) इति ।
स्वधा -१ [क] पित्रुद्देश्यकत्यागः । यथा पितृम्यः स्वधेत्यादौ स्वधा-
शब्दस्यार्थः । वेदादेशितोच्चारणकर्तृत्वोपलक्षित पुरुषीयत्यागः इति
फलितोर्थः : (ग० व्यु० का० ४ पृ० १०० ) । अत्र निपात-
स्वधायोगे त्यागोद्देश्यवाचकपदात् नमः स्वस्तिस्वाहास्वधालंबषड्योगाच
( पाणि० २१३ । १६ ) इत्यनेन सूत्रेण चतुर्थी । [ख] पितृदेवोद्देशेन
हविषस्त्यागः । यथा इदमन्नं पित्रे स्वधा इत्यादौ स्वधाशब्दार्थः । अत्र
खधाशब्दार्थत्यागस्य विषयतयान्नादावन्वयः । तस्य स्वधाशब्दस्य
निपातत्वेन तदर्थस्य भेदेनान्वयस्य व्युत्पत्तिसिद्धत्वात् । तथा च
पित्रुद्देश्यकत्यागविषय इदमन्नम् इति बोधः । [ग] स्वस्वकरणको
हविस्त्यागः । यथा इदं पित्रे स्वधा इत्यादौ स्वधाशब्दस्यार्थः । अत्र
पित्रुद्देश्यकस्य स्वधापदकरणकस्य हविस्त्यागस्य कर्मेदम् इत्याकारको
बोध: ( श० प्र० श्लो० ९४ टी० पृ० १२६ ) । २ पौराणिकाः
कर्मज्ञाश्च मातृकाविशेषः । यथा नमः स्वधायै स्वाहायै (पितृगाथा )
इत्यादौ स्वधाशब्दस्यार्थं इत्याहुः । इयं च दक्षकन्या । ब्रह्मणो मानसी
कन्या च पितृपत्नी । अत्राधिकं तु ब्रह्मवैवर्ते द्रष्टव्यम् ।
स्वप्नः – प्रदेश विशेषावस्थितमनः संयोगः (नील० गु० पृ० ३८)
मेध्यामनः संयोगो वा । यथा न कंचन स्वप्नं पश्यति ( बृह० उ०
४।३।१९) इत्यादौ स्वनशब्दार्थः । यथा वा स्वप्रज्ञानं मानस विपर्ययः
।
इत्यादौ प्रन्थे स्वप्नशब्दार्थः । अत्र प्रदेशविशेषस्तु पुरीतद्वहिर्देशयोः
संधिः । निरिन्द्रियात्मप्रदेशो वा चिन्त्यः ।
स्वतज्ञानम् – ( बुद्धिप्रभेद: अविद्या ) [ क ] जाग्रदषस्थायां बाह्यवस्त्वनु-
भवजन्यमयथार्थ स्मरणम् । तच्च निराकारमेव ( त० भा० प्रमेयनि०
पृ० ४०)। स्वप्मे च सर्वमेव ज्ञानं स्मरणम् अयथार्थम् । दोषवशेन