This page has not been fully proofread.

न्यायकोशः ।
 
जीमूतवाहनप्रभृतयः आहुः । तत्रापि समुदायद्रव्ये स्वत्वम् इति मिता-
क्षराकदादय आहुः । प्रदेशभेदे इति बनदेशीया आहुः ( वीर-
मित्रो० अ० २ पृ० ५२१-५५० ) । अत्राधिकं च वीरमित्रो-
दयजीमूतवाहनादौ दृश्यम् । [ख] द्रव्याणां यथेष्टक्रयविक्रयादि-
क्रियासु बिनियोजको धर्मविशेषः । स चातिरिक्तः पदार्थः न तु यथेष्ट
विनियोगयोग्यत्वरूपः इति नव्याः दीधितिकारादयः आडु: ( का०
व्या० पृ० ६ ) । तदर्थश्च दानादिनाश्यः प्रतिग्रहजन्यः सप्तपदार्था-
तिरिक्तः कश्चनानिर्वाच्यः पदार्थ: ( ल० म० ) इति । तत्रायमाशयः ।
प्रतिप्रहादिनाशोत्तरमपि स्वत्वव्यवहारात् दानादितः स्वत्वं नश्यति प्रति-
प्रहादितच स्वत्वमुत्पद्यते । अत एव निबन्धादौ माविन्यपि स्वस्वम् ।
अन्यथा प्रतिमासं प्रतिवर्ष वा देयत्वेन प्रतिश्रुतस्य धान्यादिरूपस्य
भावित्वेन तत्र स्वत्वोत्पत्त्यनुपपत्तेः ( लीलावतीरहस्ये चूडामणिः )
( श्रीकृष्णसर्कालंकारः ) । अतस्तादृशप्रत्ययव्यवहारप्रामाण्यानुरोधेन
स्वत्वमतिरिक्तः पदार्थः । तच्च स्वत्वं दानादितो नश्यति प्रतिग्रहा-
दितश्च जायते । तच्च बहिरिन्द्रिययोग्यम् । स्वं पश्यामि इति
वस्तुतः स्वत्वस्थानुमितिरेव न तु साक्षात्कारः ( का० व्या० पृ० ६ )
(नील० ) इति । अत्रेदं बोध्यम् । सप्त वित्तागमा धर्म्या दायो लाभः क्रयो
जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० १०।११५)
इति । स्वत्वोत्पत्तौ साधारणोपायास्तु गौतमेनोक्ता: स्वामी रिक्थक्रय-
संविभागपरिग्रहाधिगमेषु इति । असाधारणोपायास्तु ब्राह्मणस्याधिकं
लब्धम् क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोः ( मिता० भ० २
दायमा० ) इति । केचित्तु जीमूतवाहनादयः प्रतिग्रहो न स्वत्वजनकः ।
अपितु यथेष्टविनियोगार्हताप्रयोजकः । तथा च उत्पन्नमपि स्वस्वं
संप्रदानव्यापारेण ममेदम् इति ज्ञानेन ( स्वीकारेण ) यथेष्टव्यवहारा
क्रियते इत्याहुः ( वीरमित्रो० अ० २ पृ० ५४२ ) ।
 
:
 
.
 

 
-
 
स्वधर्मः – १ यत्किंचिद्व्यक्तिवृत्तिपदार्थमात्रम् । यथा घटवृत्तिर्धर्मो घटत्वादिः ।
२ धर्मशास्तु स्वानुरूपो वेदायुक्तः भविगीतः आचारादिधर्मः । यथा
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः