2023-02-20 00:57:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०४९
▬▬
स्वतत्रत्वम् - १ इतरसत्तानधीन सत्ताकत्वम् । यथा परमेश्वरस्य राज्ञश्च वा
स्वातन्त्र्यम् । इतरसत्तेत्यस्यार्थस्तु इतरव्यापारानधीनव्यापारवत्वम् ।
स्वरूप प्रमितिप्रवृत्तिलक्षणे सत्तात्रैविध्ये परानपेक्षत्वम् इति मध्वमतानुयायि-
वेदान्तिन आहुः ( प्र० च० परि० २५० ४७ ) । २ सममिव्याहृत-
क्रियाकार कान्तरानधीनस्वे सति कारकत्वम् (ग० व्यु० कार० ३) ।
यथा चैत्रस्तण्डुलं पचति इत्यादौ चैत्रस्य स्वातत्र्यम् । इदं च स्वतन्त्रः
कर्ता (पाणि० १९९४/५४ ) इति सूत्रे कर्तुः स्वातत्र्यम् । तच्च समभि-
व्याहृत क्रियाकारकान्तरानधीन व्यापारवस्वम् इति । ३ कचित् शब्दा-
प्रयोज्यत्वं स्वतन्त्रत्वम् इति केचिदाहुः ( मू० म० १ ) ।
स्वतो ग्राह्यत्वम् – स्वग्राहकसामग्र्या ग्राह्यत्वम् । यथा मीमांसकमते ज्ञान-
प्रामाण्यं स्वतोप्राह्यं भवति । ज्ञानग्राहकसामग्र्या ग्राह्यं भवति । तन्न
इति नैयायिकमतम् । अत्राधिकं तु प्रमात्वशब्दव्याख्याने सविस्तरं
संपादितम् इत्यत्रैव विरम्यते ।
स्वतो व्यावर्तकत्वम् } —विशेषशब्दे अनयोः प्रपञ्चः संपादितः स
तत्र ( पृ० ७८६ ) दृश्यः ।
-
स्वत्वम् – [क] यथेष्ट विनियोगयोग्यत्वम् इति प्राच आहुः ( का०
व्या० पृ० ६ ) ( त० दी० ) । यथा चैत्रस्य धनम् इत्यादौ धने
चैत्रनिरूपितं स्वत्वम् । तत्रायमर्थः । यथेष्टविनियोगयोग्यत्वं शास्त्रा-
निषिद्ध विनियोगोपायः क्रयप्रतिग्रहादिस्तद्विषयत्वम् । तच्च न बहिरिन्द्रिय-
वेद्यम् । प्रतिग्रहादेर्मान सज्ञानविशेषरूपस्य बहिरिन्द्रियायोग्यत्वात् ( का०
व्या० पृ० ६ ) इति । अत्र विप्रतिपत्तिः स्वत्वं लौकिकम् अलौकिकं
वा इति । तत्र स्वत्वमलौकिकम् शास्त्रैकसमधिगम्यम् इति पूर्वपक्षः
जीमूतवाहनादीनाम् । तच्च लौकिकमेव लोकप्रसिद्धमेव इति सिद्धान्तः
विज्ञानेश्वर मित्र मिश्रादीनाम् इति मिताक्षरावीरमित्रोदयादौ सिद्धान्तितम् ।
तञ्च स्वत्वं जन्मनैवोत्पद्यत इति मिताक्षराकारादयः विज्ञानेश्वरप्रभृतयः
आहुः । तच्च विभागेन पित्रादिमरणादिनैव वोत्पद्यत इति यङ्गदेशीयाः
१३२ न्या० को०